________________
व्याख्या-'आधाकम्र्मेति' आघानं-आधा 'उपसर्गादात' इत्यङ् प्रत्ययः, साधुनिमित्तं चेतसः प्रणिधान, यथाऽनुकस्य साघोः कारणेन मया भक्तादि पचनीयमिति, आधया कर्म-पाकादिक्रिया आधाकर्म तद्योगाद् भक्ताद्यप्याधाकर्म, इह दोषाभिधानप्रक्रमेऽपि यद्दोषवतोभिधानं तद्दोषदोषवतोरभेदविवक्षया द्रष्टव्यं, यद्वा-आधाय-साधू चेतसि प्रणिधाय यत्क्रियते भक्तादि तदाधाकर्म, पृषोदरादित्वाद् । यलोपः १, तथा उद्देशनम् उद्देशः-यावदर्थिकादिप्रणिधानं तेन निर्वृत्तमौदेशिकं २, तथा उद्गमदोषरहिततया स्वतः पवित्रस्य सतो भक्तादेरन्यस्याविशुद्धकोटिकभक्तादेरवयवेन सह सम्पर्कतः पूते:-पूतीभूतस्य कर्म-करणं पूतिकम्मे तद्योगाद्भक्ताद्यपि पूातकम्म ३, तथा मिश्रेण-कुटुम्बप्रणिधानसाधुप्रणिधानमीलनरूपेण भावेन जातं यद् भक्तादि तन्मिश्रजातं ४, तथा स्थाप्यते-साधुनिमित्तं कियन्तं कालं यावनिधीयते इति स्थापना, यद्वा-स्थापनं साधुभ्यो देयमितिबुद्धया देयवस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना, तद्योगादेयमपि स्थापना ५, तथा कस्मैचिदिष्टाय पूज्याय वा बहुमानपुरस्सरीकारेण यदभीष्टं वस्तु दीयते तत्माभृतमुच्यते, ततः प्राभृतमिव प्राभृतं साधुभ्यो भिक्षादिकं देयं वस्तु, प्राभृतमेव प्राभृतिका, 'अतिवर्त्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानीति वचनात् पूर्व नपुंसकत्वेऽपि कपत्यये समानीते सति स्त्रीत्वं, यदा-म इति प्रकर्षण आ इति साधुदानलक्षणमर्यादया भृता निर्वर्तिता यका भिक्षा सा प्राभृता, ततः स्वार्थिककपत्ययविधानात् प्राभृतिका ६, तथा साधुनिमित्तं मण्यादिस्थापनेन भित्ताद्यपनयनेन वा प्रादुः-प्रकटत्वेन देयस्य वस्तुनः करणं प्रादुष्करणं तद्योगाद्भक्ताद्यपि प्रादुष्करणं, यद्वा प्रादुः-प्रकटं करणं यस्य तत् प्रादुष्करणं ७, तथा क्रीतं यत्साध्वर्थ मूल्येन परिगृहीतं ८, तथा 'पामिचे' इति अपमित्य-भूयोऽपि तव दास्यामीत्येवमभिधाय यत् साधुनिमित्तमुच्छिन्नं गृह्यते तदपमित्यम् , इह
१ 'अव्ययस्ये 'त्यत्राव्ययशब्दसम्बन्धिनो हि स्यादेर्लुप्, तेन प्रणम्येत्यादौ भावप्रधानत्वेन कादौ अवर्त्तमानत्वाद् अन्यपदार्थादिसम्बन्धि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org