________________
पिण्डनियुतेर्मलयगिरीयावृत्तिः
उद्गमशुद्धेमोक्षहेतुता
॥३४॥
यदुक्तं-' चारित्रोदमेनाधिकार' इति, तत्र चारित्रस्योरमेनाधिकारः शुद्धस्य द्रष्टव्यो, नाशुद्धस्य, अशुद्धस्य मोक्षलक्षणकार्यसम्पादकत्वायोगात्, न खलु बीजमुपहतमकुरं जनयति,सर्वत्राप्यनुपहतस्यैव कारणस्य कार्यजनकत्वात् , चारित्रस्य च शुद्धेः कारणं द्विधा, तद्यथाआन्तरं वाह्यं च, ते द्वे अपि प्रतिपादयति
दसणनाणप्पभवं चरणं सुद्धेसु तेसु तस्सुद्धी । चरणेण कम्मसुद्धी उग्गमसुद्धा चरणसुद्धी ॥ ९१ ॥
व्याख्या-इह यतो ज्ञानदर्शनप्रभवं चारित्रं, ततस्तयोः शुद्धयोस्तस्य चारित्रस्य शुद्धिर्भवति नान्यथा, तस्मादवश्यं चारित्रशुद्धिनिमित्तं चारित्रिणा सम्यग्ज्ञाने सम्यग्दर्शने च यतितव्यं, यत्नच निरन्तरं सद्गुरुचरणकमलपर्युपासनापुरस्सरं सर्वज्ञमतानुसारितागमशास्त्राभ्यासकरणम् , एतेन चारित्रशुद्धेरान्तरं कारणमुक्तम् , अथ चारित्रशुद्धयाऽपि किं प्रयोजनं येनेत्थं तच्छुद्धिरन्वेष्यते?, अत आह-चरणेन कर्मशुद्धिः, चरणेन विशुद्धेन कर्मणो-ज्ञानावरणीयादिकस्य शुद्धिः-अपगमो भवति, तदपगमे चात्मनो यथाऽवस्थितस्वरूपलाभात्मको मोक्षः, ततो मोक्षार्थिना चरणशुद्धिरपेक्ष्यते, तथा न केवलयोरेव ज्ञानदर्शनयोः शुद्धौ चारित्रशुद्धिः किन्तुद्मशुद्धौ चारित्रशुद्धिः। एतेन बाह्य कारणमुक्तं, ततश्चरणशुद्धिनिमित्तं सम्यग्दर्शनज्ञानवतापि नियमत उद्गमदोषपरिशुद्ध आहारो ग्राह्यः॥ ते चोद्गमदोषाः षोडश, तानेव नामतो निर्दिशति
आहाकम्मदेसिय पूईकम्मे ये मीसजाएँ य । ठवां पाहुडियाएं पाओ कीर्यं पामिच्चे ॥ ९२ ॥ परियट्टिएँ अभिहँडे उब्भिन्ने मालोहडे" इय । अच्छिज्जे" अणिसँढे अझोयरएं य सोलसमे ॥ ९३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org