________________
नवकर्मोपादाननिषेधपूर्वोपार्जितकापगमकरणस्वरूपं, ततस्तत्प्रधानं मोक्षस्याङ्गं, प्रधानानुयायिन्यश्च प्रेक्षावतां प्रवृत्तयः, ततोऽत्र चारित्रोद्मेन प्रयोजनम् ॥ लड्डुकादेरित्यत्रादिशब्देन लब्धं ज्योतिरुद्रमादिरूपं द्रव्योद्गमं विवरीतुमाहजोइसतणोसहीणं मेहरिणकराणमुग्गमो दवे । सो पुण जत्तो य जया जहा य दबुगमो बच्चो ॥ ८७ ॥
व्याख्या-ज्योतिषां-चन्द्रसूर्यादीनां तृणानां-दर्भादीनां औषधीनां-शाल्यादीनां मेघानां-जीमूतानां ऋणस्य-उत्तमय दातव्यस्य कराणां-राजदेयभागानां, उपलक्षणमेतत् अन्येषामपि द्रव्याणां, य उद्गमः स 'द्रव्ये ' द्रव्यविषयो द्रव्यस्य सम्बन्धी वेदितव्यः, स पुनद्रव्योगमः 'यतः' यस्मात्सकाशात 'यदा' यस्मिन् काले 'यथा' येन प्रकारेण भवति तथा वाच्यः, तत्र ज्योतिषां मेघानां च आकाशदेशात तृणानामौषधीनां च भूमेः ऋणस्य व्यवहारादेः कराणां नृपतिनियुक्तपुरुषादेः, तथा यदेति ज्योतिषां मध्ये सूर्यस्य | प्रभाते शेषाणां तु कस्यापि कस्याञ्चिद्वेलायां तृणादीनां प्रायः श्रावणादौ, तथा यथेति ज्योतिषां मेघानां चाऽऽकाशे प्रसरणेन तृणा-| नामौषधीनां च भूमीं स्फोटयित्वा ऊर्द्ध निस्सरणेन ऋणस्य पञ्चकशतादिवर्द्धनरूपेण कराणां प्रतिवर्ष गृहस्य गृहस्य द्रम्मद्वयादि ग्राह्यमित्येवंरूपेण, एवं शेषाणामपि द्रव्याणां यतो यदा यथा च यथासम्भवमुद्गमो भावनीयः ॥ इह प्राग् 'दव्वंमि लड्डुगाई' इत्युक्तं, तेन च लड्डुकप्रियकुमारकथानकं सूचितम् , अतस्तदेवेदानी गाथात्रयेणोपदर्शयतिवासहरा अणुजत्ता अत्थाणी जोग किड्डकाले य । घडगसरावेसु कया उ मोयगा लड्डुगपियस्स ॥ ८८॥ जोग्गा अजिण्ण मारुय निसग्ग तिसमत्थ तो सुइसमुत्थो। आहारुगगमचिंता असुइत्ति दुहा मलप्पभवो ॥८९॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org