________________
पिण्डनियुतेर्मलयगि रीयावृत्तिः
उद्गमस्यैकार्थिकानि | भेदाश्च
॥३२॥
वत् स्वयमेव भावनयिा, तदेवमुक्ता द्रव्यगवेषणा, साम्पतं भावगवेषणा कर्त्तव्या, सा च उद्गमाशुद्धाहारविषया, तत्र प्रथमत उद्गमस्यै- कार्थिकानि नामानि नामादिकांश्च भेदान् प्रतिपादयति
उग्गम उग्गोवण मग्गणा य एगट्ठियाणि एयाणि । नाम ठवणा दविए भावमि य उग्गमो होई॥
व्याख्या-उद्गम उद्गोपना मार्गणा च एकाथिकान्येतानि नामानि, स चोद्गमश्चतुर्धा भवति, तद्यथा-'नामति नामोद्गमः-यददम इति नाम, अथवा जीवस्याजीवस्य वा यद् उद्गम इति नाम स नामनामवतोरभेदोपचारात्, यद्वा नाम्ना उद्मो नामोद्गम इति व्युत्पत्तेर्नामोद्मः, स्थापनोद्गम: उद्गमः स्थाप्यमानः, 'द्रव्ये ' द्रव्यविषयः, 'भावे' भावविषयः ॥ तत्र द्रव्योगमो द्विधा-आगमतो नोआगमतश्च, नोआगमतोऽपि विधा-ज्ञशरीरभव्यशरीतद्व्यतिरिक्तभेदात् , तत्राऽऽगमतो नोआगमतश्च ज्ञशरीरभव्यशरीररूपौ द्रव्यगवेषणावद् भावनीयौ, ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्योद्गमं तथा नोआगमतो भावोद्गमं च प्रतिपादयति
दव्वंमि लड्डुगाई भावे तिविहोग्गमो मुणेयव्यो । दसणनाणचरित्ते चरित्तुग्गमेणेत्थ अहिगारो ॥ ८६ ॥
व्याख्या-द्रव्ये ' द्रव्यविषये उद्गमः 'लड्डुकादौ' लड्डुकादिविषयो लड्डुकादेः सम्बन्धी वेदितव्यः, अत्राऽऽदिशब्दाद | ज्योतिरादिपरिग्रहः, तथा 'भावे ' भावविषयः 'त्रिविधः' त्रिप्रकारः ज्ञातव्यः, तद्यथा-'दर्शने ' दर्शनविषयः 'ज्ञाने' ज्ञानविषयः, ||"चारित्रे' चारित्रविषयः, अत्र तु चारित्रोद्गमेनाधिकारः-प्रयोजनं, चारित्रस्य प्रधानमोक्षाङ्गत्वात्, तथाहि-ज्ञानदर्शने सती अपि न चारित्रमन्तरेण कर्मामलापगमाय प्रभवतः, श्रेणिकादौ तथाऽनुपलम्भाव, चारित्रं पुनरवश्यं ज्ञानदर्शनाविनाभावि स्वरूपेणापि चाभि-|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org