________________
विन्ध्यमरण्य, ततो राजा कदाचिद् गजबलं महाबलमित्यवश्यं मया गजा ग्रहीतव्या इति परिभाव्य गजग्रहणाय सत्वरं पुरुषान् प्रेरयामास, ते च पुरुषाश्चिन्तितवन्तो यथा-जानां नलचारिरभीष्टा, सा च सम्पति ग्रीष्मकाले न सम्भवति, किन्तु वर्षासु, तत इदानीमरघट्टैः | सरसीर्बिभृमो येन नलवनान्यतिप्ररूढानि भवन्तीति, तथैव कृतं, नलवनपत्यासन्नाश्च सर्वतः पाशा मण्डिताः, इतश्च परिभ्रमन्तो यूथा-| धिपतिसहिता हस्तिनः समाजग्मुः, यूथाधिपतिश्च तानि नलवनानि परिभाव्य गजान् प्रति उवाच-भोः स्तम्बेरमा ! नामूनि नलवनानि । स्वाभाविकानि, किन्त्वस्माकं बन्धनाय केनापि धूर्तेन कृतानि कूटानि, यत एवं नलवनान्यतिप्ररूढानि सरस्यो वाऽतीव जलसम्भृता वर्षासु सम्भवन्ति नेदानीं ग्रीष्मकाले, अथ ब्रवीरन् प्रत्यासन्नविन्ध्यपर्वतनिर्झरणप्रवाहत एवं सरस्यो भृता नलवनानि चातिप्ररूढानि ततो नामूनि कूटानि, तदयुक्तम् , अन्यदापि हि खलु निर्झरणान्यासारन्, न चैवं कदाचनाप्यतिजलभृताः सरस्योऽभूवन , तथा चैतदर्थसमाहिकामेव नियुक्तिकारो गाथां पठति
विइयमेयं गजकुलाणं, जया रोहंति नलवणा । अन्नयावि झरंति हृदा, न य एवं बहुओदगा ॥ ८४ ॥
व्याख्या-विदितमेतद् गजकुलानां यदा 'रोहन्ति । अतिशयेन प्ररूढानि भवन्ति नलवनानि, तस्मानामूनि स्वाभाविकानि, अथ निर्झरणवशादेवं प्ररूढानि तत आह-अन्यदाऽपि हृदा झरन्ति, न त्वेवं कदाचनापि बहूदकाः सरस्योऽभवन् , तस्माद्भूतेन । केनाप्यमूनि कृतानि कूटानीति मात्र यूयं यासिष्ट, एवमुक्ते यैस्तद्वचः प्रतिपन्नं ते दीर्घकालं वनस्वेच्छाविहारसुखभागिनो जाताः, यैस्तु न कृतं ते बन्धबुभुक्षादिदुःखभागिनः, इहापि गजयूथाधिपतेर्नळवनसदोषनिर्दोषरूपतापरिभावनं द्रव्यगवेषणा, दान्तिकयोजना तु पूर्व
dain Education International
For Personal & Private Use Only
www.jainelibrary.org