SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुक्तेमलयागरीयावृत्तिः थाधिपतेः श्रीपर्णीफलसदृशमोदकद्रव्यसदोषत्वनिर्दोषत्वपर्यालोचनं सा द्रव्यगवेषणा । इह नियुक्तिकारेण 'पसत्थअपसत्य उवमा उ' इति द्रव्यागवेषप्रतिपादयता दान्तिकोऽप्यर्थः सूचितो द्रष्टव्यः, स चायं-यूथाधिपतिस्थानीया आचार्याः मृगयूथस्थानीयाश्च साधवः, तत्र ये गुरुनियोगतणायां कुरङ्ग आधाकादिदोषदुष्टाहारपरिहारिणस्ते प्रशस्तकुरङ्गोपमा द्रष्टव्याः, ये त्वाहारलाम्पट्यतो गुर्वाज्ञामपाकृत्याधाकांदिपरिभोगियो । दृष्टान्त: बभूवुः ते अप्रशस्तकुरङ्गसदृशा वेदितव्याः, अत्रार्थे च कथानकमिदं-हरन्तो नाम सन्निवेशः, तत्र यथाऽऽगमं विहरन्तः समिता नाम सूरयः समाययुः, तत्र च जिनदत्तो नाम श्रावक आसीत्, स च जिनवचनसाधुभक्तिपरीतचेता दानशौण्डः कदाचित्साधुनिमित्तं भक्तमाधाकर्म कारितवान् , सूरयश्च सर्वमपि तं वृत्तान्तं कथञ्चित्परिज्ञातवन्तः, ततस्तैः साधवस्तत्र प्रविशन्तो निवारिताः, यथा-भोः। साधवस्तत्र साधुनिमित्त आहारः कृतो वर्त्तते इति मा तत्र यूयं गमत, एवमुक्ते यैस्तद्वचः प्रतिपन्नं ते आधाकर्मपरिभोगजनितपापक-| म्मेणा न बद्धा गुर्वाज्ञा च परिपालिता, ततः शुद्धशुद्धतरसंयमप्रवृत्तिभावतो मुक्तिसुखभागिनोऽभवन , यैस्त्वाहारलाम्पट्यतो भाविनं| दोषमवगणय्याधाकर्मणि झषा इव बडिशनिवेशिते मांसे प्रवृत्ताः ते कुगतिहेत्वाधाकर्मपरिभोगतो गुर्वाज्ञाभङ्गतश्च दीर्घतरसंसारभागिनो जाताः॥ साम्प्रतं गजदृष्टान्तमाह| हथिग्गहणं गिम्हे अरहट्रेहिं भरणं च सरसीणं । अच्चदएण नलवण आरूढा गयकुलागमणं ॥ ८३॥ व्याख्या-इस्तिग्रहणं मया कार्यमित्येवं राज्ञश्चिन्ता, ततस्तद्हणाय ग्रीष्मकालेऽपि पुरुषप्रेषणा तैश्च सरसीनामरघट्टकैर्भरणं । कृतं, ततोऽत्युदकेन नलवनान्यतिशयेन प्ररूढानि, ततो गजकुलस्यागमनमिति गाथाक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तचेदम्-आनन्दं नाम पुरं, तत्र रिपुमईनो नाम राजा, तस्य भार्या धारिणी, तस्य च पुरस्य प्रत्यासन्नं गजकुलशतसहस्रसंकुलं dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy