________________
क्षणे दौहृदमजायत, दौहृदे चासम्पद्यमाने तस्याः खेदद्वशतः शरीरस्य दौर्बल्यमभवत्, तच दृष्ट्वा नृपतिः सखेदं तां पृष्टवान् यथा-दा प्रिये ! क्रिमतीव शरीरे तव दौर्बल्यमजायत ?, ततः सा दौहृदमचकथत्, ततो राजा सत्वरं कनकपृष्ठकुरङ्गानयनाय पुरुषान् प्रेषितवान्, तेऽपि च पुरुषाः स्वचेतसि चिन्तयामासुः - इह यस्य यद्वल्लभं स तत्रासक्तः सन् प्रमादभावं भजमानः सुखेनैव बध्यते, कनकपृष्ठानां च | कुरङ्गाणामिष्टानि श्रीपर्णीफलानि तानि च सम्प्रति न विद्यन्ते, ततस्तत्सदृशान्मोदकान् कृत्वा श्रीपर्णी वृक्षतलेषु सर्वतः पुञ्जकपुञ्जका कारेण क्षिप्त्वा तेषां समीपे पाशान स्थापयाम इति तथैव कृतं, ते च कनकपृष्टा रुरवो निजेन यूथाधिपतिना सह स्वेच्छया परिभ्रमन्तस्तत्रागताः, यूथाधिपतिश्च श्रीपर्णी फलाकारान् पुञ्जकपुञ्जकस्थितान्मोदकानवलोक्य मृगानुक्तवान्, यथा-भो रुखो ! युष्माकं बन्धनार्थमिदं केनापि धूर्त्तेन कृतं कूटं वर्त्तते; यतो न सम्पति श्रीपणफलानि सम्भवन्ति, न च सम्भवन्त्यपि पुञ्जकपुञ्जकाकारेण घटन्ते, अथ | मन्येथास्तथा विधपरिभ्रमद्वातसम्पर्कतः पुञ्जकपुञ्जका कारण घटन्ते, तदप्ययुक्तं, ननु पुरापि वाता वान्ति स्म, न तु कदाचनाप्येवं पुञ्जकपुअकाकारेण भवन्ति स्म, तथा चैतदेव नियुक्तिकारः पठति —
विइअमेयं कुरंगाणं, जया सीवन्नि सीयइ । पुरावि वाया वार्यता, न उणं पुंजकपुंजका ॥ ८२ ॥
व्याख्या—' विदितं ' प्रतीतम्, एतत्कुरङ्गाणां यदा श्रीपण 'सीदति ' धातूनामनेकार्थत्वात्कलति, तस्मान्नेदानीं फलानि सम्भवन्ति, सम्भवन्तु वा तथाऽपि कथं पुञ्जकपुञ्जकाकारेण स्थितानि ?, वातत्रशाच्चेन्ननु पुरापि वाता वान्ति स्म, न पुनरेवं पुञ्जकपुञ्जकाः फलानामभवन्, तस्मात्कूटमिदमस्माकं बन्धनाय कृतं वर्त्तते इति मा यूयमेतेषामुपकण्ठं गमत, एवमुक्ते यैस्तद्वचः प्रतिपन्नं ते दीर्घजीविनो वनेषु स्वेच्छाविहार सुखभागिनश्चाजायन्त, यैस्त्वाहारलम्पटतया तद्वचो न प्रतिपनं ते पाशबन्धनादिदुःखभागिनोऽभवन् । इह यद्यू
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org