SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ गवेषणानि क्षेपाः पिण्डनियु- व्याख्या-इह न 'अगवेषितस्य' अपरिभावितस्य पिण्डादेग्रहणं, नाप्यगृहीतस्य परिभोगः, तत एषणात्रिकस्य 'एषा ' पूर्वोक्ता क्तेमलयगि- 'आनुपुवी ' क्रमो ज्ञातव्यः । सम्पति गवेषणाया नामादीन् भेदानाहरीयादृत्तिः का नाम ठवणा दविए भावंमि गवसणा मुणेयव्वा । दव्वंमि कुरंगगया उग्गमउप्पायणा भावे ॥ ७९ ॥ ॥३०॥ व्याख्या नाम 'ति नामगवेषणा स्थापनागवेषणा एते च एषणे इव सप्रपञ्चं स्वयमेव भावनीये, 'द्रव्ये' द्रव्यविषया 'भावे भावविषया, तत्र द्रव्यविषया आगमनोआगमभेदाविधा, तत्राऽऽगमतो गवेषणाशब्दार्थज्ञाता तत्र चानुपयुक्तः, " अनुपयोगो द्रव्य 'मिति वचनात् , नोआगमतस्त्रिधा ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात् , तत्र ज्ञशरीरभव्यशरीररूपे द्रव्यगवेषणे एषणे इव भावनीये, ज्ञशरीरभव्यशरीरव्यतिरिक्तगवेषणा सचित्तादिद्रव्यविषया, तत्र कुरङ्गगजा उदाहरणं, तथा चाह-दमि कुरंगगया' द्रव्ये-द्रव्यविषयायां गवेपणायां कुरङ्गाः-मृगाः गजाः-हस्तिनो दृष्टान्ताः, 'भावे ' भावविषया गवेषणा 'उग्गमउपायणत्ति सूचनात्सूत्रमिति न्यायादुद्गमोत्पादनादोपविमुक्ताहारविषया ॥ यदुक्तं-'दव्वमि कुरंगगया' इति, तत्र कुरङ्गादृष्टान्तं गाथाद्विकेनाभिधित्सुराह जियसत्त देवि चित्तसभ पविसणं कणगपिट्टपासणया । दोहल दुब्बल पुच्छा कहणं आणा य पुरिसाण||८|| सीवन्निसरिसमोयगकरणं सीवन्निरुक्खहेट्टेस । आगमण कुरंगाणं पसत्थ अपसत्थ उवमा उ ॥ ८१ ॥ व्याख्या-सुगम, नवरं भावार्थः कथानकादवसेयः, तच्चेदं-क्षितिप्रतिष्ठितं नाम नगरं, तत्र राजा जितशत्रुस्तस्य भार्या पट्टमहादेवी नाम्ना सुदर्शना, तस्याः कदाचिदापन्नसत्त्वाया राज्ञा सह चित्रसभायां प्रविष्टायाचित्रलिखितान् कनकपृष्ठान्मृगानवलोक्य तन्मांसभ ॥३०॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy