SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ पतीत्यर्थः, इदमुद्रगोपनाया उदाहरणम् ॥ तदेवमुक्ता सचित्तद्विपदद्रव्यविषया एषणा, सम्पति सचित्तचतुष्पदापदविषयां मिश्रविषयामचित्तविषयां च प्रतिपादयति एमेव सेसएसुवि चउप्पयापयअचित्तमीसेसु । जा जत्थ जुज्जए एसणा उ तं तत्थ जोएज्जा ॥ ७६ ॥ व्याख्या-'एवमेव ' द्विपदेष्विव 'शेषेष्वपि ' द्विपदेभ्यो व्यतिरिक्तेष्वपि चतुष्पदापदाचित्तमिश्रेषु गवादिवीजपुरकादिद्रम्मादिकटककेयूरायाभरणविभूषितसुतादिरूपेषु द्रव्येषु विषयेषु या यत्रैषणा-इच्छागवेषणामार्गणादिरूपा 'युज्यते' घटते तां तत्र पूर्वोक्तगाथानुसारेण योजयेत् , यथा कोऽपि दुग्धाभ्यवहाराय गामिच्छति, कोऽपि पुनस्तामेव कापि नष्ट गवेषयते, अन्यः पुनस्तामेव गां परास्कन्दिभिरपहियमाणां गवादिपदप्रतिविम्बानुसारेण मृगयते, कोऽपि पुनः स्वशौर्यप्रकटनाय जनप्रकाशं व्याघ्रमपगतासु चिकीर्षति, एवमपदादिष्वपि भावना कार्या ॥ उक्ता द्रव्यैषणा, साम्पतं भावैषणां त्रिप्रकारामभिधित्सुराह भावेसणा उ तिविहा गवसगहणेसणा उ बोद्धव्वा। गासेसणा उ कमसो पन्नत्ता वीयरागेहिं ॥ ७७॥ व्याख्या-'भावः' ज्ञानादिरूपः परिणामविशेषः तद्विषया एषणा भावैषणा, यथा ज्ञानदर्शनचारित्राणामेकदेशतः समूलघातं वा घातो न भवति तथा पिण्डादेरेषणमिति भावः, साऽपि 'त्रिधा' त्रिप्रकारा 'क्रमशः' क्रमेण प्रज्ञप्ता वीतरागैः, केन क्रमेण ? इत्यत आहगवेसे 'त्यादि, पूर्व गवेषणेषणा ततो ग्रहणेषणा ततो ग्रासैषणा । कस्मात्पुनरित्थं गवेषणादीनां क्रम ? इत्याहअगविठ्ठरस उ गहणं न होइ न य अगहियरस परिभोगो । एसणतिगरस एसा नायव्वा आणुपुव्वी उ ॥ ७८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy