________________
पिण्डनिर्युतेर्मलयगि
यावृत्तिः ॥ २९ ॥
या, भावैपणाऽपि द्विधा - आगमतो नोआगमतश्च तत्र आगमत एषणाशब्दार्थस्य परिज्ञाता तत्र चोपयुक्तः, ' उपयोगो भावनिक्षेप' इति वचनात्, नोआगमतो गवेषणाएषणादिभेदात् त्रिधा, तत्र नामैषणां स्थापनैषणां द्रव्यैषणां आगमतो नोआगमतश्च ज्ञशरीरभव्यशरीररूपां | भावैषणां त्वागमतः सुज्ञानत्वादनादृत्य शेषां द्रव्यैषणां भावैषणां च व्याचिख्यासुरिदमाह - 'दव्वे ' इत्यादि, द्रव्ये द्रव्यविषया 'भावे च भावविषया, एकैका 'त्रिविधा' त्रिप्रकारा ज्ञातव्या, तत्र द्रव्यविषया त्रिविधा सचित्तादिभेदात्, तद्यथा - सचित्तद्रव्यविषया अचित्तद्रव्यविषया मिश्रद्रव्यविषया च, भावविषयापि त्रिधा गवेषणादिभेदात्, तद्यथा - गवेषणैषणा ग्रहणैषणा ग्रासैषणा च ॥ तत्र द्रव्यैषणापि सचित्तद्रव्यविषया त्रिधा, तद्यथा — द्विपदविषया चतुष्पदविषया अपदविषया च तत्र प्रथमतो द्विपदद्रव्यविषयामेषणामाह
जम्मं एसइ एगो सुयरस अन्नो तमेसए नहं । सत्तुं एसइ अन्नो पण अन्नो य से मच्चुं ॥ ७५ ॥
व्याख्या – इह यद्यपि एषणादीनि चत्वारि नामानि प्रागेकार्थिकान्युक्तानि, तथाऽपि तेषां कथञ्चिदर्थभेदोऽप्यस्ति तथाहि एषणा इच्छा मात्रमभिधीयते तच्च गवेषणादावपि विद्यते, अत एव गवेषणादय एषणायाः पर्याया उक्ताः, गवेषणादीनां तु परस्परं नियतोऽप्यर्थभेदोऽस्ति, तथाहि - गवेषणमनुपलभ्यमानस्य पदार्थस्य सर्वतः परिभावनं, मार्गाणं-निपुणबुद्धयाऽन्वेषणम्, उद्गोपनं विवक्षितस्य पदार्थस्य जनप्रकाशचिकीर्षा, तत एतेषां क्रमेणोदाहरणान्याह - एकः कोऽप्यनिर्दिष्टनामा देवदत्तादिकः सन्तत्यादिनिमित्तं सुतस्य ' जन्म ' उत्पत्तिं एपते' इच्छति, इदमेषणाया उदाहरणम्, अन्यः पुनः कोऽपि यज्ञदत्तादिकः सुतं कापि नष्टम् ' एषते ' गवेषयते, इदं गवेषणाया उदा- ॥२९॥ | हरणम्, अन्यः कोऽपि विष्णुमित्रादिकः ' पदेन ' पदानुसारेण धूलीबद्दलभूमिसमुत्थचरणप्रतिबिम्बानुसारेणेत्यर्थः, शत्रुम् 'एषते' मृगयते, इदं मार्गेणाया उदाहरणम्, अन्यः पुनः ' से ' तस्य शत्रोः 'मृत्युं ' मरणम् 'एषते' उद्गोपयति, सर्वजनप्रकाशं मृत्युमभिधातुमभिल
Jain Education International
एषणानि - क्षेपाः
For Personal & Private Use Only
www.jainelibrary.org