________________
एसण गवसणा मग्गणा य उग्गोवणा य बोडव्वा । एए उ एसणाए नामा एगट्ठिया होति ॥ ७३ ॥
व्याख्या-एषणा गवेषणा मार्गणोद्गोपना एतानि चशब्दादन्वेषणाप्रभृतीनि चैषणाया एकार्थिकानि नामानि भवन्ति, तत्र 'इषु इच्छायां' एषणम् एषणा इच्छा, गवेषणा-अन्वेषणा गवेषणं गवेषणा, मार्गणं मार्गणा, उद्गोपनम् उद्गोपना ।। एवं नामान्यभिधाय सम्पति भेदानभिधित्सुराह
नामं ठवणा दविए भावमि य एसणा मुणेयव्वा । दवे भावे एकेक्कया उ तिविहा मुणेयया ॥ ७४ ॥
व्याख्या-एषणा चतुर्विधा ज्ञातव्या, तद्यथा-नामैषणा स्थापनैषणा तथा 'द्रव्ये' द्रव्यविषयैषणा 'भावे भावविषया च, तत्र नामैषणा एषणा इति नाम यद्वा-जीवस्याजीवस्य वैषणाशब्दान्वर्थरहितस्य एषणा इति नाम क्रियते स नामनामवतोरभेदोपचारात्, यद्वानाम्ना एषणा नामैषणा इति व्युत्पत्ते मैषणेत्यभिधीयते, स्थापनैषणा एषणावतः साध्वादेः स्थापना, इहैषणा साध्वादेरभिन्ना तत उपचा-1 रात्साध्वादिरेव एषणेत्यभिधीयते, ततः स स्थाप्यमानः स्थापनैषणा, स्थाप्यते इति स्थापना स्थापना चासौ एषणा च स्थापनैषणा, द्रव्यैपणा द्विधा-आगमतो नोआगमतश्च, तत्राऽऽगमत एषणाशब्दार्थस्य ज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य मिति वचनात् , नोआगमतस्विधा, तद्यथा-शरीरद्रव्यैषणा भव्यशरीरद्रव्यषणा ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यैषणा च, तत्रैषणाशब्दार्थज्ञस्य यच्छरीरमपगतजीवितं सिद्धशिलातलादिगतं तद्भूतभावतया ज्ञशरीरद्रव्यैपणा, यस्तु वालको नेदानीमेषणाशब्दार्थमवबुध्यते अथ चायत्यां तेनैव शरीरसमुच्छ्रयेण परिवर्द्धमानेन भोत्स्यते स भाविभावकारणत्वाद्भव्यशरीरद्रव्यैषणा, ज्ञशरीरभव्यशरीरव्यतिरिक्ता तु द्रव्यैषणा सचित्तादिद्रव्यविष
白白白心心心心心心心心心心心心合合合合令令令白宫?白白白白白
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org