________________
पिण्डनियुतेर्मलयगिरीयावृत्तिः
॥२८॥
जह कारणमणुवयं कज्ज साहेइ अविकलं नियमा । मोक्खक्खमाणि एवं नाणाईणि उ अविगलाई॥ ७१ ॥ आहारादेव्याख्या-यथा बीजादिलक्षणं कारणमनुपहतम्-अग्न्यादिभिरविध्वस्तम् 'अविकलं' परिपूर्णसामग्रीसम्पन्न नियमादकुरादिल
भावपिण्डता
एषणायाउक्षणं कार्यं जनयति, 'एवम् । अनेनैव प्रकारेण ज्ञानादीन्यप्यविकलानि-परिपूर्णानि तुशब्दादनुपहतानि च नियमतः ‘मोक्षक्षमाणि ' मो-|
पक्रमश्च क्षलक्षणकार्यसाधनानि भवन्ति, तथाहि-संसारापगमरूपो मोक्षः, संसारस्य च कारणं मिथ्यात्वाज्ञानाविरतयः, तत्पतिपक्षभूतानि च ज्ञा-3 नादीनि, ततो मिथ्यात्वादिजनितं कर्म नियमतो ज्ञानाद्यासेवायामपगच्छति, यथा हिमप्रपातजनितं शीतमनलासेवायामिति, कारणानि : मोक्षस्य ज्ञानादीनि, तानि च परिपूर्णानि तुशब्दादनुपहतानि च, अनुपहतत्वं च चारित्रस्योद्गमादिदोषपरिशुद्धाहारग्रहणे सति, नान्यथा, ततोऽष्टभिः स्थानैराहारो यतिभिद्य इत्येतदत्र वक्तव्यम् , अत आहारपिण्डेनेहाधिकारः । तदेवमुक्तः पिण्डः, सम्पत्येषणा वक्तव्या, ततः पिण्डस्योपसंहारमेषणायाश्चोपक्षेपं चिकीर्षुरिदमाह
संखेवपिडियत्थो एवं पिंडो मए समक्खाओ । फुडवियडपायडत्थं वोच्छामी एसणं एत्तो ॥ ७२ ॥ | व्याख्या-एवं' पूर्वोक्तेन प्रकारेण 'सक्षेपपिण्डितार्थः सङ्क्षेपेण-समासेन सामान्यरूपतयेत्यर्थः पिण्डितः-एकत्र मीलितः तात्पर्ययात्रव्यवस्थापितोऽर्थः-अभिधेयं यस्य स तथारूपः पिण्डो मया व्याख्यातः, 'इत:' ऊर्द्धम् एषणाम्' एपणाभिधायिकां गाथासन्ततिं ' स्फुटविकटप्रकटार्थी ' स्फुटः-निर्मल: न तात्पर्यानवबोधेन कश्मलरूपः विकट:--सूक्ष्ममतिगम्यतया दुर्भेदः प्रकट:-तथाविधविशिष्टवचनरचनाविशेषतः सुखप्रतिपाद्यो योऽक्षरेष्वव्याख्यातेष्वपि प्रायः स्वयमेव परिस्फुरन्निव लक्ष्यतेस प्रकट इति भावार्थः अर्थःअभिधेयं यस्याः सा तथा तां वक्ष्ये ॥ तत्र तत्वभेदपर्यायाख्येति प्रथमतः मुखावबोधार्थमेषणाया एकाथिकान्पभिधित्सुराह
dan Education International
For Personal & Private Use Only
www.jainelibrary.org