________________
व्याख्या - इहाचित्तद्रव्य पिण्डत्रिधा, तद्यथा - आहाररूप उपधिरूपः शय्यारूपश्च एष च त्रिविधोऽपि प्रशस्तस्य-ज्ञानसंयमादिरूपस्य भावपिण्डस्य 'उपग्रहम्' उपष्टम्भं करोति, ततस्त्रिविधेनाप्येतेन यतीनां प्रयोजनं, केवलमिह ग्रन्थे 'अधिकार' प्रयोजनम्, 'आहारे' | आहारपिण्डे, स चाष्टभिः स्थानैः - उद्गमादिभिः परिशुद्धो यथा यतीनां गवेषणीयो भवति तथाऽभिधास्यते ॥ किं कारणमत्र विशेषत आहारपिण्डेन प्रयोजनम् ?, अत आह—
निव्वाणं खलु कर्ज नाणाइतिगं च कारणं तस्स । निव्वाणकारणाणं च कारणं होइ आहारो ॥ ६९ ॥
व्याख्या - इह मुमुक्षूणां 'कार्य' कर्त्तव्यं निर्वाणमेव न शेषं, खटुशब्दोऽवधारणार्थः, शेषस्य सर्वस्यापि तुच्छत्वात्, 'तस्य' निर्वा|णस्य कारणं 'ज्ञानादित्रिकं ' ज्ञानदर्शनचारित्ररूपं 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति (तत्त्वा० अ० १ सू० १) वचनप्रामाण्यात्, ततस्तदवश्यमुपादेयम्, उपायसेवामन्तरेणोपेयप्राध्यसम्भवात् तेषां ज्ञानादीनां निर्वाणकारणानां कारणमष्टभिः स्थानैः परिशुद्ध आहारः, | आहारमन्तरेण धर्म्मकाय स्थितेरसम्भवात्, उद्गमादिदोषदुष्टस्य च चारित्रभ्रंशकारित्वात् ॥ एतदेवाहारस्य निर्वाणकारणज्ञानादिकारणत्वं दृष्टान्तेन समर्थयते
जह कारणं तु तंतू पडरस तेसिं च होंति पम्हाई । नाणाइतिगरसेवं आहारो मोक्खनेमस्स ॥ ७० ॥
व्याख्या—यथा पटस्य तन्तवः कारणं तेषामपि तन्तूनां कारणानि पक्ष्माणि भवन्ति, 'एवम् अनेन प्रकारेण ज्ञानादित्रिकस्य 'मोक्खनेमस्स त्ति नेमशब्दो देश्यः कार्याभिधाने रूढः, ततो मोक्षो नेमः - कार्य यस्य तस्य कारणं भवत्याहारः । इह कश्चित् ज्ञाना| दीनां मोक्षकारणतामेव न प्रतिपद्यते, विचित्रत्वात्सत्त्वचित्तवृत्तेः, ततस्तं प्रति ज्ञानादीनां मोक्षकारणतां दृष्टान्तेन भावयति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org