________________
र्शनं
पिण्डनियु-कर्म आत्मन्युपचीयते स प्रशस्तो भावपिण्डः येन त्वशुभं सोऽप्रशस्त इति ॥ तदेवमुक्तो भावपिण्डः, तदुक्तौ च व्याख्याताः षडपि ना-पिण्डनिक्षेपे तेर्मलयगि|मादयः पिण्डाः, सम्पत्यमीषां पिण्डाना मध्ये येनात्राधिकारस्तमभिधित्सुराह
अधिकारदरीयावृत्तिः
दधे अच्चित्तेणं भावंमि पसत्थएणिहं पगयं । उच्चारियत्थसरिसा सीसमइविकोवणट्ठाए ॥ ६७ ॥ ॥२७॥ ___व्याख्या-'इह' अस्यां पिण्डनियुक्तौ 'द्रव्ये' द्रव्यपिण्डविषये 'अचित्तेन' अचित्तद्रव्यपिण्डेन 'भावे' भावपिण्डविषये पुनः |
प्रशस्तेन' प्रशस्तभावपिण्डेन 'प्रकृतं ' प्रयोजनं, यद्येवं तर्हि शेषाः किमर्थमभिहिताः ? अत आह–'उच्चारिए त्यादि, शेषा-नामा-1 दयः पिण्डाः पुनरुचरितार्थसदृशा उच्चरितः-प्रतिपादितः योऽर्थः पिण्डशब्देनान्वर्थयुक्तेन तत्सदृशाः तेन तुल्याः, तेषामपि पिण्डा इत्येवमुच्चार्यमाणत्वात्, ततः शिष्याणां मतेः विकोपन-प्रकोपनं झटिति तत्तदर्थव्यापकतया प्रसरीभवनं तदर्थमुक्ताः, इयमत्र भावना-जगति नामादयोऽपि पिण्डा उच्यन्ते, तत्रापि पूर्वोक्तप्रकारेण पिण्डशब्दप्रवृत्तिदर्शनात् , केवलमिह तेषां मध्येऽचित्तद्रव्यपिण्डेन प्रशस्तेन च भावपिण्डेनाधिकारः, न शेषेरप्रस्तुतत्वादिति, अस्यार्थस्य वैविक्त्येन प्रतिपादनार्थ शेषनामादिपिण्डोपन्यास इति । आह-मुमुक्षूणां सकलकर्मशृङ्खलावन्धविमोक्षाय प्रशस्तेन भावपिण्डेन प्रयोजनं भवतु, अचित्तेन तु द्रव्यपिण्डेन किं प्रयोजनम् ?, उच्यते, भावपिण्डोपचयस्य तदुपष्टम्भकत्वाद्, एतदेवाह
॥२७॥ आहारउवहिसेज्जा पसत्थपिंडरसुवग्गहं कुणइ । आहारे अहिगारो अट्ठहिं ठाणेहिं सो सुडो ॥ ६८ ॥ १ स (द्रव्यपिण्डः) उपष्टम्भको यस्य तत्त्वं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org