________________
पिण्डनियुतेर्मलयगिरीयावृत्तिः
| द्रव्योगमे लड्डुकमियकुमारकथा
तस्सेवं वेरग्गुग्गमेण सम्मत्तनाणचरणाणं । जुगवं कमुग्गमो वा केवलनाणुग्गमो जाओ ॥ ९ ॥
व्याख्या-'वासगृहात् ' वासभवनात् अनुयात्रा-निर्गमः, तत आस्थान्यां योग्यक्रीडा सा व्यधीयत, ततः 'काले' भोजन- वेलायां तस्य 'लड्डुकप्रियस्य' मोदकप्रियस्य कुमारस्य योग्या घटेषु शरावेषु च कृत्वा मोदका जनन्या प्रेषिताः, ते च परि- जनेन सह स्वेच्छं तेन भुक्ताः, ततो भूयोऽपि योग्यक्रीडा निरीक्षणासक्तचित्ततया तस्य रात्री जागरणभावतस्ते मोदका न जीर्णाः, ततोऽजीर्णदोषप्रभावतोऽतीव पूतिगन्धो मारुतनिसर्गोऽभवत् , तत आहारोद्मचिन्ता जाता, यथा 'त्रिसमुत्था' घृतगुडकणिकासमुद्भवा एते मोदकाः, ततः शुचिसमुत्थाः, सूत्रे च जातावेकवचनं, केवळं द्विधा मलप्रभवोऽयं देहः, ततस्तत्सम्पर्कतोऽशुचयो जाता इत्येवं तस्य वैराग्योद्गमेन ज्ञानदर्शनचारित्राणां युगपत्क्रमेण वा उद्गमो जातः, ततः केवलज्ञानोद्गम इति गाथाक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-श्रीस्थलकं नाम नगरं, तत्र राजा भानुः, तस्य भार्या रुक्मिणी, तया सुरूपनामा तनयः, स च यथासुखं पञ्चभिर्धात्रीभिः परिपाल्यमानः प्रथमसुरकुमार इवानेकस्वजनहृदयाभिनन्दनं कुमारभावमधिरुरोह, ततः शुक्लपक्षचन्द्रबिम्बमिव प्रतिदिवसं कलाभिरभिवर्द्धमानः क्रमेण कमनीयकामिनीजनमनःप्रह्लादकारिणी यौवनिकामधिजगाम, तस्मै च स्वभावत एव रोचन्ते मोदकाः ततो लोके तस्य मोदकप्रिय इति नाम प्रसिद्धिमगमत् , स च कुमारोऽन्यदा वसन्तसमये वासभवनात प्रातरुत्थाय आस्थानमण्डपिकायामाजगाम, तत्र च निजशरीरलवणिमापाकृतसुरसुन्दरीरूपाहङ्कारमनोहरविलासिनीजनगीतनृत्तादिकं परिभावयितुं प्रावर्त्तत, तत्र च स्थितस्य भोजनवेलायामागतायां भोजननिमित्तं जननी प्रधानशरावसम्पदेषु शेषपरिजननिमित्तं च घटेषु कृत्वा मोदकान् प्रेषितवती, ततस्तेन परिजनेन सह मोदका यथेच्छं बुभुजिरे, ते च रात्रावपि गीतवृत्तादिव्याक्षिप्तचित्ततया जागरणभावतो न जीर्णाः, ततोऽजीर्ण
॥३३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org