________________
प्रशस्तभावपिण्डस्योपसंहारमाह-'एसो' इत्यादि, 'एष'दशप्रकारोऽपि भावपिण्डः काष्टकमथनैः-तीर्थकृद्भिर्भणितः, अनेन स्वमनीषिकाव्युदासमाह ॥ सम्पति अप्रशस्तं भावपिण्डं दशविधमपि क्रमेणाह- अपसत्यो य' इत्यादि, अप्रशस्तः पुनर्भावपिण्ड एकविधोऽसंयमोविरत्यभावः, अत्राज्ञानमिथ्यात्वादीनि सर्वाण्यप्यन्तर्भूतानि विवक्ष्यन्ते ततो न कश्चिद्दोषः, द्विविधोऽज्ञानाविरती, चशब्दो मिथ्यात्वशब्दानन्तरं योजनीयः, अत्र मिथ्यात्वकषायादयः सर्वेऽप्यत्रैवान्तर्भूता विवक्षितास्ततो न द्विविधत्वव्याघातः, एवमुत्तरत्राप्यन्तर्भावभावना भावनीया, त्रिविधो मिथ्यात्वं चशब्दादज्ञानाविरती च, चतुर्विधः चत्वारः क्रोधादयः क्रोधमानमायालोभाः, पश्चविधः पञ्चाश्रवद्वाराणि प्राणातिपातमृपावादादत्तादानमैथुनपरिग्रहरूपाणि, पड्डिधः 'काय'त्ति कायवधा:-पृथिवीकायिकादिविनाशाः, सप्तविधः कर्मणि-कर्मविषयो द्रष्टव्यः, इह कर्मशब्देन कर्मबन्धनिबन्धनभूता अध्यवसाया गृह्यन्ते, भावपिण्डाधिकारात्, तत आयुर्वर्जशेषसप्तकर्मबन्धनिबन्धनभूताः काषायिका अकाषायिका वा परिणामविशेपा जातिभेदापेक्षया सप्तभेदाः सप्तविधोऽप्रशस्तो भावपिण्डः, अष्टविधोऽपि भावपिण्डः कर्मविषयः, तत्रापीयं भावना-कर्माष्टकबन्धनिबन्धनभूताः कापायिकाः परिणामविशेषा जातिभेदापेक्षयाऽष्टभेदा अष्टविधोऽप्रशस्तो भावपिण्डः, 'अगुत्तीओ'त्ति नवब्रह्मचर्यगुप्तिपतिपक्षभूता नवाब्रह्मचर्यगुप्तयः, तथा अधर्मो-दशविधधर्मप्रतिपक्षभूतो दशविधोऽमशस्तो भावपिण्डः । सम्पति प्रशस्ताप्रशस्तयोर्भावपिण्डयोर्लक्षणमाहबज्झइ य जेण कम्मं सो सम्बो होइ अप्पसत्थो उ । मुच्चइ य जेण सो उण पसत्थओ नवरि विन्नेओ॥६४॥
व्याख्या-इह येन भावपिण्डेनेकविधादिकेन प्रवर्त्तमानेन 'कर्म' ज्ञानावरणीयादि बध्यते, चशब्दोऽनुक्तसमुच्चयार्थः, स च दीर्घस्थितिकंदीर्घसंसारानुवन्धि विपाककटुकं च येन बध्यते इति समुचिनोति, स सर्वोऽप्यप्रशस्तो भावपिण्डो ज्ञातव्यः, येन पुनरेकविधादिना
..
b
dain Education International
For Personal & Private Use Only
www.janelibrary.org