SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पिण्डनिर्य- क्तेर्मलयगिरीयावृत्तिः ॥२६॥ 6००००००००००००००००००००००००००००००० वर्तमानेन कर्मणः सकाशात शनैः शनैः सर्वात्मना वा मुच्यते स प्रशस्तो भावपिण्डो विज्ञेयः, आह-पिण्डो नाम बहूनामेकत्र मीलनमु-पिण्डनिक्षेपे च्यते, पिण्डनं पिण्ड इति व्युत्पत्तेः, भावाश्च संयमादयो यदा प्रवर्त्तन्ते तदैकसङ्ख्या एव, एकस्मिन् समये एकस्यैवाध्यवसायस्य भावात् , शस्तापशततः कथं पिण्डत्वम् ? इति, अत्रोत्तरमाह स्ताभावपिदसणनाणचरित्ताण पज्जवा जे उ जत्तिया वावि । सो सो होइ तयक्खो पज्जवपेयालणा पिंडो॥६५॥ | व्याख्या-इह चारित्रग्रहणेन तपःप्रभृत्यपि गृह्यते, तस्यापि विरतिपरिणामरूपतया चारित्रभेदत्वात् , ततो दर्शनज्ञानचारित्राणां प्रत्येक ये ये 'पर्यवाः । पर्यायाः अविभागपरिच्छेदरूपा यदा यदा यावन्तो' यत्परिमाणा वर्तन्ते स स तदा तदा तत्तदाख्यो-दर्शनाख्यो ज्ञानाख्यश्चारित्राख्यः 'पर्यवपेयालना पिण्डः' पर्यायप्रमाणकरणेन पिण्डः पर्यायसंहतिविवक्षया पिण्डो भवतीत्यर्थः, इयमत्र भावनाइह यदा संयम एव केवलः प्राधान्येन विवक्ष्यते न तु सती अपि ज्ञानदर्शने संयमस्य तदविनाभावित्वेन तयोस्तत्रैवान्तर्भावविवक्षणात् , तदा ये तस्य संयमस्याविभागपरिच्छेदाख्याः पर्यायास्ते समुदायेनैकत्र पिण्डीभूय व्यवतिष्ठन्ते, परस्परं तादात्म्यसम्बन्धेन सम्बद्धत्वात् , ततः संयमपर्यायसंहत्यपेक्षया पिण्ड इति संयम एकविधभावपिण्डत्वेनोच्यमानो न विरुध्यते, यदा तु तस्मिन्नेव संयमरूपेऽध्यवसाये पृथा | ज्ञानविवक्षा क्रियाविवक्षा च भवति, यथा-वस्तुयाथात्म्यपरिच्छेदरूपोऽशो ज्ञानं प्राणातिपातादिविरतिरूपः परिणामविशेषस्तु क्रियेति | तदा ये ज्ञानस्याविभागपरिच्छेदरूपा पर्यायास्ते परस्परं तादात्म्यसम्बन्धेनावस्थिता इति ज्ञानपिण्डः, ये तु क्रियाया अविभागपरिच्छेदरूपाः पर्यायास्ते क्रियापिण्डः, ततो द्विविधो भावपिण्डो ज्ञानक्रियाख्यः प्रतिपाद्यमानो न विरुध्यते, यदा तु तस्मिन्नेव संयमरूपेऽध्यवसाये पृथग् ज्ञानविवक्षा दर्शनविवक्षा चारित्रविवक्षा च, यथा वस्तुयाथात्म्यपरिच्छेदरूपोऽशो ज्ञानं तस्मिन्नेव वस्तुनि परिच्छिद्यमाने जिनैरित्थ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy