________________
पिण्डनिये तेर्मलयागरीयावृत्तिः
॥ २५ ॥
सट्टा उद्धड तह अप्पलेवडा चैव । उग्गहिया परगहिया उज्झियधम्मा य सत्तमिया ॥ १ ॥' अवग्रहमतिमा वसतिविषयनियमविशेषाः, तथाऽष्टविधः पिण्डोऽष्टौ प्रवचनमातरः, ताश्च पञ्च समितयस्तिस्रो गुप्तयः, तथा नवविधः पिण्डो नव बह्मचर्यगुप्तयः, तासां चेदं स्वरूपं - 'वसहि कह निसिज्जिदिय कुद्धंतर पुव्वकीलिय पणीए । अइमायाहार विभूसणं च नव बंभगुत्तीओ || १ || ' ' तथा चे 'ति समुच्चये, दशविधः पिण्डो | दशप्रकारः श्रमणधर्म्मः स चायं-' खंती य मद्दवऽज्जव मुत्ती तव संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥१॥
या, तत्र प्रथमा सामान्येन, इयं तु गच्छान्तर्गतानां साम्भोगिकानां चोद्युक्तविहारिणां यतस्तेऽन्योऽन्यार्थे याचन्ते २ । अन्यार्थमवग्रहं याचिष्ये | अन्यावगृहीते तु न स्थास्यामीत्येषाऽहालन्दिकानां यतस्ते सूत्रावशेषमाचार्यादभिकाङ्क्षन्त आचार्यार्थे तं याचन्ते ३ | अहमन्यार्थमवग्रहं न याचिष्ये, | अन्यावगृहीते तु वत्स्यामीति, एषा गच्छ एवोद्युक्तविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वतां ४ । आत्मकृतेऽवग्रहं याचिष्ये न परार्थम् एषा जिनक|ल्पिकस्य ५ । यदीयमहमवग्रहं ग्रहीष्यामि तदीयमेव चेत्कटादि संस्तारकं ग्रहीष्यामि, अन्यथोत्कुटुक उपविष्टो वा रात्रिं गमयिष्यामीत्येषा जिनकल्पिकादे: ६ । सप्तमी त्वेषैव पूर्वोक्ता नवरं यथासंस्तृतमेव शिलादि ग्रहीष्यामि नान्यदिति ७ । २ व्याख्या - असंसृष्टा हस्तमात्राभ्यां चिन्त्या, “ असंसट्टे हत्थे असंसट्टे मत्ते, अखरंटिअत्तिवृत्तं भवइ, एवं गृह्णतः प्रथमा, गाथाभङ्गभयाद्विपर्ययनिर्देश: १, संसृष्टापि ताभ्यां चिन्त्या, “ संसट्टे हत्थे संसट्टे मत्ते, खरंटिअत्तिवृत्तं भवइ २, उद्धृता पाकस्थानाद्यत् स्थास्यादौ स्वयोगेन भोजनजातमुद्धृतं तत एव गृह्णतः ३, अल्पलेपाऽल्पशब्दोऽभाववाचक| स्ततो निर्लेपं पृथुकादि गृह्णतः ४, अवगृहीता भोजनकाले भोक्तुकामस्य शरावादिना यदुपहृतं तत एव गृह्णतः ५, प्रगृहीता भोजनवेलायां भोक्तुका| माय दातुमभ्युद्यतेन भोक्त्रा वा स्वहस्तादिना यत्प्रगृहीतं तद्गृहृतः ६, उज्झितधर्मा यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तदर्ह त्यक्तं वा गृहतः ७ । पानैषणा अप्येवमेव, नवरं चतुर्थ्यामायामसौवीरादि निर्लेपं ज्ञेयं ।
Jain Education International
For Personal & Private Use Only
पिण्डनिक्षेपे
प्रशस्ता प्रशस्ताभावपि - ण्डाः
।। २५ ।।
www.jainelibrary.org