________________
व्याख्या-प्रशस्तोऽप्रशस्तश्च भावपिण्डः प्रत्येकं 'दशविधः । दशप्रकारः, किंरुपः ? इत्याह-'एकविधादिकः' एकविधो द्विवि-| त्रिविधश्चतुर्विधो यावद्दशविध इति, तत्र प्रथमत उद्देशक्रमप्रामाण्यानुसरणात्प्रशस्तं भावपिण्डं दशविधमप्यभिदधाति-'सञ्जमे'त्यादि, तत्रैकविधः प्रशस्तो भावपिण्डः संयमः, इह संयमो ज्ञानदर्शने विना न भवति, 'पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः' इति वचनप्रामाण्यात् , ततो ज्ञानदर्शने संयम एवान्तभूते विवक्षिते इति संयम एवैकः प्रशस्तभावपिण्डत्वेन प्रतिपाद्यमानो न विरुध्यते, द्विविधः पिण्डो विद्याचरणे' विद्या-ज्ञानं चरणं-क्रिया, अत्र सम्यग्दर्शनं ज्ञान एवान्तर्भूतं विवक्षितमिति न पृथग्गणित, विवक्षा हि वनधीना, वक्ता च | कदाचित्संक्षेपेणाभिधित्सुस्तां तां प्रत्यासत्तिमधिकृत्य तत्तदन्तर्भावेनाभिधत्ते कदाचित्पुनर्विशेषपरिज्ञानोत्पादनाय विस्तरेणाभिधित्सुः सर्व वैविक्त्येन पृथक् प्रतिपादयति, ततः कदाचित् ज्ञानादित्रिक संयम इति प्रतिपाद्यते कदाचित् ज्ञानक्रिये इति कदाचित्पुनः परिपूर्णमपि साक्षाद्यथा ज्ञानादित्रिकमिति न कश्चिद्दोषः, त्रिविधः पिण्डः पुनः 'ज्ञानादित्रिकं ' ज्ञानदर्शनचारित्राणि, चतुर्विधः पिण्डो ज्ञानदर्शनतपःसंयमाः, पञ्चविधः पञ्च व्रतानि-प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहनिवृत्तिलक्षणानि, अत्रापि ज्ञानदर्शने अन्तभूते विवक्षिते इति न पृथगणिते, रात्रिभोजनविरमणमप्येतेषु पञ्चसु यथायोगमन्तर्भूतं विवक्षितं ततो न पञ्चविधत्वव्याघातः, एवमुत्तरत्रापि यथायोगमन्तर्भावभावना भावनीया, पड्डिधो भावपिण्डः-षड् व्रतानि, तत्र पञ्च व्रतानि पूर्वोक्तान्येव प्राणातिपातविरमणादीनि षष्ठं तु रात्रिभोजनविरमणलक्षणं, तथा सप्तविधे पिण्डे-सप्त पिण्डैषणाः सप्त पानैषणाः सप्त अवग्रहप्रतिमाः, तत्र पिण्डैपणाः पानैषणाश्च सप्त संसृष्टादयः, ताश्चेमा:-'संसहम| १ अवग्रहप्रतिमाः सप्त, अवगृह्यते इत्यवग्रहस्तस्य प्रतिमा अभिग्रहाः, तत्र पूर्वमेवैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति विचिन्त्य तमेव याचित्वा गृहृतः प्रथमा १ । तथा यस्यैवंभूतोऽभिग्रहो भवति-अहं खलबन्येषां कृतेऽवग्रहं ग्रहीष्यामि, अन्यैश्व गृहीतेऽवग्रहे वत्स्यामीति द्विती
܀ ܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org