________________
..
..
वात् ॥ सम्पति 'जत्थ जया तप्परूवणया' इत्येतद्वयाचिख्यासुर्नामस्थापनाद्रव्यभावपिण्डानां योगविभागसम्भवात् पारमार्थिक पिण्डत्वं क्षेत्रकालयोस्तु योगविभागासम्भवत औपचारिक प्रतिपादयन्नाह
अहवा चउण्ह नियमा जोगविभागेण जुज्जए पिण्डो । दोसु जहियं तु पिण्डो वणिज्जा कीरए वावि ॥ ५८॥ ___ व्याख्या-अथवेति प्रकारान्तरद्योतने, पूर्व हि क्षेत्रकालयोर्यथासङ्खधं प्रदेशसमयानां परस्परानुवेधतः सङ्ख्याबाहुल्यतश्च पारमार्थिक पिण्डत्वमुक्तं, यद्वा तन्न युज्यत एव, योगविभागासम्भवात्, तथाहि-लोके यत्र योगे सति विभागः कर्तुं शक्यते विभागे वा सति योगः तत्र पिण्ड इति व्यपदेशः, न च क्षेत्रप्रदेशेषु योगे सत्यपि विभागः कर्तुं शक्यः, नित्यत्वेन तेषां तथा व्यवस्थितानामन्यथा कर्त्तमशक्यत्वात, ततो न तत्र पारमार्थिक पिण्डत्वं, तश समयो वर्तमान एव सन् नातीतोऽनागतो वा, तयोविनष्टानुत्पन्नत्वेनाविद्यमानत्वात्, ततोऽत्र विभाग एव न तु कदाचनापि योग इति पारमार्थिकपिण्डत्वाभावः, ततोऽन्यथा क्षेत्रकालपिण्डप्ररूपणा कर्त्तव्येति प्रकारान्तरता,
चतुर्णी' नामस्थापनाद्रव्यभावपिण्डानां ' योगविभागेन' योगविभागसम्भवेन नियमात्पिण्ड इति व्यपदेशो युज्यते, तथाहि-नाम्नःपिण्डो नामनामवतोरभेदोपचारात् यद्वा नाम्ना पिण्डो नामपिण्ड इति व्युत्पत्तेः पुरुषादिकमेव भण्यते, तस्य च इस्तपादादिभिरवयवैयुक्तस्यापि खड्गादिभिर्विभागः कर्तुं शक्यते इत्यस्ति योगे सति विभागः, यद्वा पूर्व गर्भे मांसपेशीरूपस्य सतो हस्तादिभिरवयवैर्वियोगः पश्चात्क्रमेण तैः सह संयोग इति विभागे सति योगः ततः पिण्डरूपता, तथा स्थापनापिण्डेऽक्षत्रिकादिरुपे पूर्व विभागे सति संयोगः संयोगे वा सति विभाग इति पिण्डरूपता, द्रव्यपिण्डेऽपि गुडौदनादिके विभागपूर्वकः संयोगः संयोगपूर्वको वा विभागः सुप्रतीत इति पारमार्थिकपिण्डरूपता, भावपिण्डेऽपि भावभाववतोः कथञ्चिदभेदात्सावादिरेव मूर्ती विग्रहवान् गृह्यते, तत्र संयोगविभागौ नामपिण्ड इव तात्विका
.........
...
.
4
dain Education International
For Personal & Private Use Only
www.jainelibrary.org