________________
पिण्डनियुतमलयगि- रीयावृत्तिः
॥२३॥
तेष्वपि ' मूतिरहितेष्वपि अमूर्तेष्वित्यर्थः, क्षेत्रप्रदेशकालसमयेषु युज्यते, तत्रापि पिण्डशब्दप्रवृत्तिनिमित्तस्य परस्परानुवेधस्य सङ्ख्या-पिण्डनिक्षेपे बाहुल्यस्य च सम्भवात्, तथाहि-सर्वेऽपि क्षेत्रप्रदेशाः परस्परं नैरन्तर्यलक्षणेन सम्बन्धेन सम्बद्धा अप्रतिष्ठन्ते, ततो यथा बादरनिष्पादित | क्षेत्रकालचतुरस्रादिघने परस्परनरन्तर्यरूपानुवेधतः सङ्ख्याबाहुल्यतश्च पिण्ड इति व्यपदेशः प्रवर्तते तथा क्षेत्रप्रदेशेष्वपि पिण्डशब्दः प्रवर्त्तमानो न
पिण्डौ विरुध्यते, तत्रापि परस्परनैरन्तर्यरूपस्यानुवेधस्य सङ्ख्याबाहुल्यस्य च सम्भवात्, तथा कालोऽपि परमार्थतः सन् द्रव्यं च, ततः सोऽपि परिणामी, सतः सर्वस्य परिणामित्वाभ्युपगमाद्, अन्यथा सत्त्वायोगात्, एतच्चान्यत्र धर्मसङ्ग्रहणिटीकादौ विभावितमिति नेह भूयो विभा-| व्यते, ग्रन्थगौरवभयात, परिणामी चान्वयी तेन तेन रूपेण परिणममान उच्यते, ततोऽस्ति वार्त्तमानिकस्यापि समयस्य पूर्वापरसमयाभ्यामनुवेधः, केवलं तौ पूर्वापरसमयावसन्तावपि बुद्धया सन्ताविव विवक्षितौ, ततः सङ्ख्यावाहुल्यमपि तत्रास्तीति पिण्डशब्दप्रवृत्त्यविरो-| धः ॥ सम्पति क्षेत्रे पिण्डशब्दमवृत्त्यविरोधं दृष्टान्तद्वारेण समर्थयते-- जह तिपएसो खंधो तिसुवि पएसेसु जो समोगाढो । अविभागिण संबद्धो कहं तु नेवं तदाधारो? ॥ ५७॥
व्याख्या-यथा कश्चिदनिर्दिष्ट व्यक्तिकः 'त्रिप्रदेशिकः' त्रिपरमाण्वात्मकः स्कन्धस्त्रिष्वष्याकाशप्रदेशेष्ववगाढो न त्वेकस्मिन् द्वयोत्यपिशब्दार्थः, 'अविभागेन सम्बध्धो' विभागो-नरन्तर्याभावस्तदभावोऽविभागो नैरन्तर्यमित्यर्थः तेन सम्बध्धो नैरन्तर्यसम्बन्धसम्बद्ध इति ॥२३॥ भावः, पिण्ड इति व्यपदिश्यते, नैरन्तर्येणावस्थानभावात् सङ्ख्यावाहुल्यतश्च, एवं-त्रिप्रदेशावगाढत्रिपरमाणुस्कन्ध इव तदाधारः-त्रिपरमाणुस्कन्धाधारः प्रदेशत्रयसमुदायः कथं तु न पिण्ड इति व्यपदिश्यते ?, सोऽपि पिण्ड इति व्यपदिश्यताम् , उभयत्राप्युक्तनीत्या विशेषाभा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org