SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ क्षेत्र पिण्ड इत्युच्यते, क्षेत्रतो व्यपदिष्टः पिण्डः क्षेत्रपिण्ड इति व्युत्पत्तेः, यदा तु कालतोऽवस्थानमधिकृत्य कालमाधान्यविवक्षया कालेन व्यपदेशो यथा - एकसामयिको द्विसामयिक इत्यादि तदा स कालपिण्डोऽपि भण्यते, कालतो व्यपदिष्टः पिण्डः कालपिण्ड इति समासाऽऽश्रयणात्, अथवा | त्रिपदेशाद्यात्मक क्षेत्रपिण्डे यादवा त्रिसमयाद्यात्मक कालपिण्डे यदवस्थितं पुद्गलद्रव्यं तत्तदादेशात् क्षेत्रकालव्यपदेशात् - क्षेत्र कालोपचारादित्यर्थः यथाक्रमं क्षेत्रपिण्डः कालपिण्डः । प्रकारान्तरेण सोपचारौ क्षेत्रकालपिण्डावाह - ' जत्थ जया तप्परूवणया ' ' यत्र ' वसत्यादौ यदा प्रथमपौरुष्यादौ ' तत्प्ररूपणा ' पिण्डप्ररूपणा क्रियते स पिण्डः प्ररूप्यमाणो नामादिपिण्डो वसत्यादिक्षेत्रमधिकृत्य क्षेत्रपिण्ड उच्यते, | यथाऽमुकवसतिरूपक्षेत्रपिण्ड इति, प्रथमपौरुष्यादिकं तु कालमधिकृत्य कालपिण्डो यथाऽमुकप्रथममहरादिरूपः कालपिण्ड इति ।। ' इह तिन्नि उ पएससमया' इत्यत्र पर आक्षेपमाह - ननु मूर्त्तेषु द्रव्येषु परस्परमनुवेधतः सङ्ख्याबाहुल्यतश्च पिण्ड इति व्यपदेशो घटते, क्षेत्रकालयोस्तु न परस्परमनुवेधो नापि काले सङ्ख्याबाहुल्यं, तथाहि - क्षेत्रमाकाशमुच्यते ' खेत्तं खलु आगास ' मिति वचनात् तच्च नित्यमकृत्रिमत्वात्, | ततः सदैव विविक्तमदेशात्मकतया व्यवस्थितमिति कथमाकाशप्रदेशानामनुवेध: ?, एकत्र मिश्रणाभावात्, कालोऽपि पूर्वापरसमयविविक्तो | वार्त्तमानिकसमयरूप एव पारमार्थिकः, पूर्वापर समययोर्विनष्टानुत्पन्नत्वेन परमार्थतोऽसत्त्वात्, सतां च परस्परमनुवेधः सङ्ख्याबाहुल्यं वा नासतां सदसतां वा, ततः कालद्वयमपि नोपपद्यते इति कथं तत्र पिण्ड इति व्यपदेशः ?, अत्र प्रतिविधानमभिधित्सुराह- मुत्तदविएस जुज्जइ जइ अन्नोऽन्नावेहओ पिंडो । मुत्तिविमुत्तेसुवि सो जुज्जइ नणु संखबाहुल्ला ॥ ५६ ॥ व्याख्या - ननु यदि मूर्त्तेषु द्रव्येषु ' अन्योऽन्यानुवेधतः परस्परानुवेधतः, 'संखबाहुल्ला' इत्यप्यत्र सम्बध्यते, ' सङ्ख्याबाहु| ल्यतश्च' ट्र्यादिसङ्ख्यासम्भवतश्च पिण्ड इति व्यपदेशो 'युज्यते ' योगमुपैति घटते इत्यर्थः, तहिं स पिण्ड इति व्यपदेश: ' मूर्त्तिविमु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy