________________
90
पिण्डनियुतेर्मलयगिरीयावृत्तिः,
पिण्डनिक्षेपे क्षेत्रकालपिण्डः
॥२२॥
कः' वत्थुलभर्जिकादिरूपः, स च वनस्पतिकायपृथिवीकायत्रसकायादिपिण्डरूपः, 'फलम् ' आमलकादि, तोह पकं ग्राह्य, ततस्तदपीत्थमेव भावनीयं, 'पोग्गलं' मांस, तदपीह पकं गृह्यते, ततस्तदपि शाकवद्भावनीयं, 'लवणं' प्रतीतं, तच्चाकायपृथिवीकायरूपं, “गुडौदनौ' प्रतीतो, तावपि फलवद्भावनीयौ, एवमन्येऽप्यनेके यथासम्भवं संयोगे पिण्डा भावनीयाः, केवलं तं तं संयोग परिभाव्य यो यत्र द्विकसंयोगादावन्तर्भवति स तत्र स्वयमेवान्तर्भावनीयः ॥ तदेवमुक्तः सप्रपञ्चं द्रव्यपिण्डः, सम्पति क्षेत्रकालपिण्डावभिषित्सुराहतिन्नि उ पएससमया ठाणविइउ दविए तयाएसा । चउपंचमपिंडाणं जत्थ जया तप्परूवणया ॥ ५५ ॥
व्याख्या-इह क्षेत्रकालपिण्डौ 'नाम ठवणापिंडे दवे खेत्ते य काल भावे य' इति गाथानिर्देशक्रमापेक्षया चतुर्थपञ्चमपिण्डौ, क्षेत्रम्-आकाशं काल:-समयविवर्तरूपः, तत्र त्रयः प्रदेशाः क्षेत्रप्रस्तावादाकाशप्रदेशाः तथा त्रयः समयाः कालस्य निर्विभागा भागाः, तुशब्दो विशेषणार्थ:, स च परस्परमनुगता इति विशेषयति, 'चतुष्पञ्चमपिण्डयो। क्षेत्रकालपिण्डयोः स्वरूपम् , इयमत्र भावना-त्रयः पर|स्परमनुगता आकाशप्रदेशास्त्रयः परस्परमनुगताः समया यथाक्रम क्षेत्रपिण्डः कालपिण्ड इति वेदितव्याः, त्रिग्रहणं चोपलक्षणं, तेन द्विचतुरादयोऽपि द्रष्टव्याः, तदेवं क्षेत्रकालपिण्डौ निरुपचरितौ प्रतिपाद्य सम्पति तावेव सोपचारावभिधत्ते–'ठाणटिइउ दविए तयाएसा 'दविएत्ति द्रव्ये-पुद्गलस्कन्धरुपे स्थानम्-अवगाहः स्थिति:-कालतोऽवस्थानं स्थानं च स्थितिश्च स्थानस्थिती ताभ्यां स्थानस्थितितः। अत्र पश्चमी 'यपः कांधारे' इत्यनेन सूत्रेण, ततोऽयमर्थः-स्थानं स्थिति चाश्रित्य यस्तदाऽऽदेश:-क्षेत्रकालादेशः क्षेत्रकालप्राधान्यविवक्षया क्षेत्रेण कालेन च व्यपदेशस्तस्माच्चतुष्पञ्चमपिण्डयोः प्ररूपणा कार्या, किमुक्तं भवति ?-स्कन्धरूपे पुद्गलद्रव्येऽवगाहचिन्तामा-1 श्रित्य क्षेत्रप्राधान्यविवक्षया यदा क्षेत्रेण व्यपदेशो यथा एकमादेशिकोऽयं द्विपादेशिकोऽयं त्रिपादेशिक इत्यादिस इत्थं क्षेत्रतो व्यपदिश्यमानः
मान च स्थितिश्च स्थानाइउ दविए तयाएसा
ततोऽयमर्थः-स्थानं
लेन च व्यपदेश
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org