SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ दरहिता करणगाथा व्यापार्यते, अधस्तने राशौ स्थितेन द्विकादनन्तरेण त्रिकेणोपरितनराशिव्यवस्थितं त्रिकोपरितनसप्तकरूपाडूनपेक्षया आद्यं षट्त्रिंशद्रूपमडूं भजेत्, ततो लब्धा द्वादश तैश्चाधोराशिनोपरितनेऽङ्के विभक्ते लब्धैखिकलक्षणस्याङ्कस्योपरितनं सप्तकलक्षणमर्दू गुणयेत्, गुणिते च सति जाताश्चतुरशीतिः, एतावन्तस्त्रिकसंयोगेष्वपि भङ्गा आनेतव्याः, यावन्नवकसंयोगे एको भङ्गः, तथा चाह-जाव चरिमो'त्ति तावविकसंयोगादिको मिश्रपिण्डो ज्ञातव्यो यावच्चरमो नवकनिष्पन्न एकसङ्खयो मिश्रपिण्डः, स च लेपमधिकृत्योपदय॑ते, इहाक्षस्य धुरि मेक्षितायां रजोरूपः पृथिवीकायो लगति, नदीमुत्तरतोऽप्कायः, लोहमयावपनघर्षणे तेजस्कायः, यत्र तेजस्तत्र वायुरिति वायुकायोऽपि, वनस्पतिकायो धूरेव, द्वित्रिचतुरिन्द्रियाः सम्पातिमाः सम्भवन्ति, महिष्यादिचर्ममयनाडिकादेश्च घृष्यमाणस्यावयवरूपः पञ्चेन्द्रियपिण्डः, इत्थंभूतेन चाक्षस्य खञ्जनेन लेपः क्रियते इत्यसावुपयोगी, इतिशब्दो मिश्रपिण्डसमाप्त्यर्थः, एतावानेव द्रव्यपिण्डो मिश्रः सम्भवतीति ॥ सम्पत्यस्यैव मिश्रपिण्डस्य कानिचिदुदाहरणान्युपदर्शयति सोवीरा गोरसासव वेसण भेसज्ज नेह साग फले । पोग्गल लोण गुलोयण णेगा विण्डा उ संजोगे ॥ ५४॥ ___ व्याख्या-'सौवीर' काञ्जिकं, तच्चाकायतेजस्कायवनस्पतिकायादिपिण्डरूपं, तथाहि-तत्राकायस्तण्डुलधावनं तेजस्कायोऽवश्रावणं वनस्पतिकायस्तण्डुलावयवा यत्सम्पर्कतस्तण्डुलोदकं गडुलमुपजायते, लवणावयवाश्च केचन तत्र लवणसम्मिश्रतण्डुलोदकादिभिः सह पतन्ति ततस्तत्र पृथिवीकायोऽपि सम्भवतीति, एवमन्यत्रापि भावना स्वधिया कर्त्तव्या, तथा 'गोरसं' तक्रादि, तच्चाकायत्रसकायसम्मिश्रं भवति, तथा 'आसवः' मद्यं, तच्चाकायतेजस्कायवनस्पतिकायादिपिण्डरूपं, 'वेसनं' जीरकलवणादि, तच्च वनस्पतिपृथिवीकायादिपिण्डरूपं, 'भेपज' यवागूप्रभृति, तच्चाकायतेजस्कायवनस्पतिकायपिण्डरूपं, 'स्नेहः' घृतवशादि, तच तेजस्कायत्रसकायादिपिण्डरूपं, 'शा dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy