________________
पिण्ड निर्युतेर्मलयगिरीयावृत्तिः ॥२१॥
अह मीसओ य पिंडो एएसि चिय नवण्ह पिंडाणं । दुगसंजोगाईओ नायव्यो जाव चरमोत्ति ॥ ५३ ॥
पिण्डनिक्षेपे
मिश्रपिण्डः व्याख्या-अथेत्यानन्तर्यद्योतने, केवलपृथिवीकायादिपिण्डाभिधानानन्तरं मिश्रकपिण्डो व्याख्यायते इति द्योतयति, 'मिश्रकः । सजातीयविजातीयद्रव्यमिश्रणात्मकः पिण्डः एतेषामेव नवानां पिण्डानां द्वयादिसंयोगात्मको ज्ञातव्यः, तद्यथा-पृथिवीकायोऽप्कायश्चेति विकसंयोगे प्रथमो भङ्गः, पृथिवीकायस्तेजस्काय इति द्वितीयः, एवं द्विकसंयोगे षट्त्रिंशद्भङ्गा भावनीयाः, तथा त्रिकसंयोगे पृथिवीकायोsकायस्तेजस्काय इति प्रथमो भङ्गः पृथिवीकायोऽप्कायो वायुकाय इति द्वितीयः एवं त्रिकसंयोगे चतुरशीतिर्भङ्गाः, तथा चतुष्कसंयोगे पृथिवीकायोऽप्कायस्तेजस्कायो वायुकाय इति प्रथमो भङ्गः, पृथिवीकायोऽष्कायस्तेजस्कायो वनस्पतिकाय इति द्वितीयः, एवं चतुष्कसंयोगे पदिशं शतं भङ्गानां भावनीयं, पञ्चकसंयोगेऽपि षडिशं शतं, षड्-संयोगे चतुरशीतिः, सप्तकसंयोगे षष्टुिंशत् , अष्टकसंयोगे नव, नवकसंयोगे एकः, सर्वसङ्ख्यया भङ्गानां पञ्च शतानि यधिकानि, एतेषां च भङ्गानामानयनाथमियं करणगाथा, “उभयमुहं रासिदुगं| हिडिल्लाणंतरेण भय पढमं । लद्धह रासिविभत्ते तस्मुवरि गुणित्तु संजोगा ॥ १ ॥ अस्याक्षरगमनिका-इह नवानां पदानां धादिसंयोगभङ्गा आनेतुमभिप्रेतास्ततस्तावत्प्रमाणौ द्वौ राशी उभयमुखौ स्थाप्येते, स्थापना चेयं पर अत्रैकस्योपरि नवकः, तत एककसंयोगे नव भङ्गा द्रष्टव्याः, न च तत्र करणगाथाया व्यापारः, द्वयादिसंयोगभङ्गानयनायैव तस्याः प्रवृत्तत्वात् , ततोऽधस्तने राशौ पर्यन्तव-18 तिन एककस्यानन्तरेण द्विकलक्षणेनोपरितनराशौ प्रथममडूं नवकरूपं भजेत्-तस्य भागहारं कुर्यात, ततो लब्धाः सार्दाश्चत्वारः, तेन च सार्द्ध- ॥२१॥ चतुष्केणाधोराशिनोपरितने प्रथमेऽ) विभक्ते लब्धेन तस्य द्विकलक्षणस्यास्योपरितनमडूमष्टकलक्षणं गुणयेत्-ताडयेत्, जाता षट्रत्रिंशत, इत्थं च गुणयित्वा 'संयोगाः' संयोगभङ्गा वाच्याः, यथा द्विकसंयोगे भङ्गाः षट्त्रिंशदिति, ततोभूयोऽपि त्रिकसंयोगभङ्गानयनाय प्रथमपा
dain Education International
For Personal & Private Use Only
www.jainelibrary.org