________________
भ्रष्टानां साधूनां मीलनाय वाद्यते, तथाऽविलादिछगणस्य गड्डरिकाया गड्डरकस्य वा, आदिशब्दादन्येषां च पुरीषस्य, गोमूत्रस्य पामाझुपमईने, क्षीरादीनां भोजने ॥ सम्पति मनुष्यस्य सचित्तादिभेदात् त्रिषिधस्याप्युपयोगमाहसच्चित्ते पव्वावण पंथुवएसे य भिक्खदाणाई । सीसट्ठिग अच्चित्ते मीसट्ठिसरक्खपहपुच्छा ॥ ५१ ॥
व्याख्या-सचित्ते इति षष्ठीसप्तम्योरथ प्रत्यभेदात सचित्तस्य मनुष्यस्य प्रयोजनं पथि पृष्टे ' उपदेशः' कथनं, तथा भिक्षादानम् , आदिशब्दाद्वसत्यादिदानं चोपयोगः, शिरसोऽस्थि, तद्धि लिने व्याधिविशेषापनोदाय घर्षित्वा दीयते, यद्वा कदाचित्कश्चित्परिरुष्टो राजादिः साधूनां विनाशाय कृतोद्यमो भवेत् ततस्ते साधवः शिरोऽस्थिकमादाय कापालिकवेषेण नंष्ट्वा देशान्तरं वजितुमिच्छन्तीति तेन प्रयोजनं, तथा मिश्रस्य मनुष्यस्योपयोगः, 'अट्टिसरक्खिात्ति · अस्थिभिः ' आभरणकल्पैः भूषितस्य सरजस्कस्य सरक्षाकस्य वा भस्मावगुण्ठितवपुष्कस्येत्यर्थः, कापालिकस्य पार्थे यत्पथि विषये प्रच्छनम् ॥ सम्पति देवताविषयमुपयोगमाह
खमगाइ कालकज्जाइएसु पुच्छिज्ज देवयं कचि । पंथे सुभासुभे वा पुच्छेज्जह दिव्व उवओगो ॥ ५२ ॥ ___ व्याख्या-क्षपकादिः, आदिशब्दादत्राऽऽचार्यादिपरिग्रहः, क्षपकस्य हि तपोविशेषाकृष्टत्वेन प्रायः समासन्ना एव देवता भवन्ति तत इह साक्षात्क्षपकग्रहणं कृतं, 'कालकार्यम् ' मरणरूपं प्रयोजनं, तदादिकेषु प्रयोजनेबूपस्थितेषु काश्चिदेवतां पृच्छेत् , तथा पथिविषयेषु 'शुभाशुभे' सापायत्वे निरपायत्वे वा देवतां काश्चन पृच्छेत् , एष 'दिव्य उपयोगः ' देवताविषय उपयोगः ॥ तदेवं सचित्तादिभेदभिनस्त्रिप्रकारोऽपि द्रव्यपिण्डः प्रत्येकं पृथिवीकायादिभेदान्नवविध उक्तः, सम्पत्येतेषामेव नवानां पृथिवीकायादीनां द्यादिमिश्रणतो मिश्र द्रव्यपिण्डमभिधित्सुराह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org