________________
तव्यः, सोऽपि च त्रिधा, तद्यथा - सचित्तो मिश्रोऽचित्तच, तत्र सचित्तस्त्रिप्रभृतीनां अक्षादीनां जीवतामेकत्र संश्लेषेण मिलनं, मिश्रस्तेषामेव केषाञ्चिज्जीवतां केषाञ्चिन्मृतानामेकत्र संश्लेषः, अचित्तो जीवविप्रमुक्तानां तेषामेवाक्षादीनामेकत्र मिलनं, तेन च पिण्डेन अत्र जातावेकवचनं । 'तैः द्वीन्द्रियादिपिण्डै: 'कार्य' प्रयोजनम् ' इदं ' वक्ष्यमाणम् । तत्र द्वित्रिचतुष्पिण्डप्रयोजनं सार्द्धगाथयाऽभिधित्सुराह—
बेइदियपरिभोगो अक्खाण ससिप्पसंखमाईणं । तेइंदियाण उद्देहिगादि जं वा वए वेज्जो ॥ ४८ ॥ चाउरिंदियाण मच्छियपरिहारो आसमच्छिया चैव ॥
व्याख्या – इह साधोद्वन्द्रियादीनां यथासम्भवं प्रयोजनं द्विधा, तद्यथा - शब्देन शरीरेण च, तत्र शब्देन प्रयोजनं शकुनादिपरिभावने, तथाहि शङ्खशब्दमाकर्ण्यमानं प्रशस्तं महाशकुनमामनन्ति शाकुनिकाः, शरीरेण प्रयोजनं त्रिधा, तद्यथा - सम्पूर्णेन शरीरेण तदेकदेशेन शरीरसम्पर्कसमुद्भूतेन चान्येन वस्तुना, तत्रामीषां चतुर्णामपि प्रयोजनानां मध्ये किमपि केषाञ्चित्साधूनामुपयोगवद्भवति, केषाञ्चित् चत्वार्यपि, तत्र द्वीन्द्रियाणां सम्पूर्णशरीरेण प्रयोजनं साक्षादभिधत्ते - द्वीन्द्रियाणां 'परिभोगः ' उपयोगोऽक्षाणां 'सशुक्तिशङ्खादीनां शुक्तिशङ्खादिसहितानां तत्र 'अक्षा:' चन्दनकाः 'शुक्तयः सुप्रतीताः यत्र स्वाति नक्षत्र सम्भविजलसम्पर्क तो मौक्तिकानि जायन्ते, 'शङ्खा:' शम्बूकाः, आदिशब्दात्कपर्दादिपरिग्रहः, तत्राक्षाणां कपर्दकादीनां चोपयोगः समवसरणस्थापनादौ शङ्खशुक्तिकानां चक्षुःपुष्पकाद्यपनोदादौ, त्रीन्द्रियाणां परिभोगमाह — त्रीन्द्रियाणां परिभोग उद्देहिकादि, इह उद्देहिकाशब्देन उद्देहिकाकृतवल्मीक मृत्तिका परिगृह्यते, आदिशब्दादन्यस्याप्येवंविधस्य त्रीन्द्रियमृत्तिकादेः परिग्रहः, स परिभोगः परिभोगविषयत्वात्, यद्वाऽत्र कर्म्मसाधनः परि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org