________________
पिण्डनियुतमलयगिरीयावृत्तिः
पिण्डनिक्षेप वनस्पतिपिण्डः
व्याख्या-पुष्पाणां पत्राणां 'शलादुफलानां' कोमलफलानां, तथा 'हरिताना' व्रीहिकादीनां 'इन्ते' प्रसवबन्धने ' म्लाने' शुष्कमाये ज्ञातव्यं स्वरूपं जीवविषमुक्तम् ।। सम्प्रत्यचित्तवनस्पतिकायस्य प्रयोजनमाहसंथारपायदंडगखोमिय कप्पा य पीढफलगाई। ओसहभेसज्जाणि य एमाइ पओयणं बहुहा ॥ ४६॥
व्याख्या-येऽमी 'संस्तारकादयः' शय्यापट्टादयः यतिभिरभिसङ्गृह्यन्ते, यानि च पात्राणि ये च 'दण्डकाः दण्डविदण्डादयः, यौ च क्षौमौ कल्पौ यच्च पीठफलकादिकम् , अत्रादिशब्दात्कपलिकादिपरिग्रहः, यानि औषधानि भेषनानि चेत्येवमादिकं बहुधा बहुप्रकार प्रयोजनमचित्तवनस्पतिकायस्य, इह 'औषधानि' केवलहरीतक्यादीनि 'भेषजानि तु तेषामेव यादीनामेकत्र मीलित्वा चूर्णानि, यद्वाऽन्तरुपयोगीन्यौषधानि बहिरुपयोगीनि प्रलेपादीनि भेषजानि ॥ उक्तो वनस्पतिकायपिण्डः, सम्पति द्वीन्द्रियादिपिण्डचतुष्टयं प्रतिपिपादयिषुस्तत्मयोजनं चोपचिक्षिप्मुरिदमाह
बियतियचउरो पंचिंदिया य तिप्पभिइ जत्थ उ समेति । सट्ठाणे सट्ठाणे सो पिंडो तेण कज्जमिणं ॥४७॥ ___व्याख्या-पत्र मेलके स्वस्थाने स्वस्थाने स्वेषाम्-आत्मीयानां स्थानम-अवस्थानं यत्र तत्र, सजातीयवर्गरूपे इत्यर्थः, द्वित्रिचतुपञ्चेन्द्रियास्त्रिप्रभृतयः संयन्ति-एकत्र संश्लिष्टा भवन्ति, तद्यथा-त्रयः त्रयः चत्वारः चत्वार इत्यादि, त्रिप्रभृतिग्रहणं चोपलक्षणं, तेन द्वौ द्वावपि यत्र संश्लिष्यतः स पिण्डः, स्वस्थाने स्वस्थाने इति भूयोऽपि सम्बध्यते, ततोऽयमर्थ:-तेषां द्वीन्द्रियादीनां स्वजातों स्वजातौ स पिण्डो वेदि
१ दंडो बाहुपमाणो विदंडओ कक्खमित्तो उ (दण्डो बाहुप्रमाणो विदण्डकः कक्षामात्रस्तु)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org