________________
ह्यते, अथवा 'ग्लानत्वे' मन्दत्वे सति वायुना प्रयोजनं भवति, क्वापि हि रोगे इत्यादिना संगृह्य चातोऽपानादौ प्रक्षिप्यते, अनेन स्थलस्थो गृहीतः, सचित्तमिश्रौ तु यत्नतः परिहरेत्, जलमध्ये त्वशक्ये परिहारे प्रायश्चित्तं पश्चादभिगृह्णीयात् ।। तदेवमुक्तो वायुकायपिण्ड:सम्पति वनस्पतिकायपिण्डमाह
वणस्सइकाओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निच्छयववहारओ चेव ॥४३॥ | व्याख्या-वनस्पतिकायस्त्रिविधः, तद्यथा-सचित्तो मिश्रोऽचित्तश्च, सचित्तः पुनर्द्विधा, तद्यथा-निश्चयतो व्यवहारतश्च ॥ इदमेव निश्चयव्यवहाराभ्यां सचित्तस्य द्वैविध्यं मित्रं च प्रतिपादयति
सव्वोऽवऽणंतकाओ सच्चित्तो होइ निच्छयनयस्स । ववहारस्स य सेसो मीसो पव्वायरोट्टाई॥४४॥
व्याख्या-निश्चयनयस्य मतेन सर्वोऽपि 'अनन्तकायः' वनस्पतिकायः सचित्तो भवति, शेषः पुनः 'प्रत्येकः' निम्बाम्रादिकः व्यवहारस्य' व्यवहारनयस्य मतेन सचित्तः, मिश्रो म्लानलोट्टादिः, तत्र प्रम्लानः सर्वोऽपि वनस्पतिकायोऽर्द्धशुष्को ज्ञेयः, तत्र हि-योऽशः शुष्कः सोऽचित्तः शेषस्तु सचित्त इति मिश्रा, 'लोट्टः' घरट्टादिचूर्णः, तत्र काश्चिन्नखिकाः सम्भवन्ति ताश्च सचित्ताः शेषस्त्वचित्त इति मिश्रः, आदिशब्दात्तत्कालदलितकणिकादिपरिग्रहः, तत्रापि कियन्तोऽवयवा अद्याप्यपरिणता इति सचित्ताः कियन्तस्त्वचित्ता इति मिश्रता ॥ साम्प्रतमचित्तं वनस्पतिकायमाह
पुप्फाणं पत्ताणं सरडुफलाणं तहेव हरियाणं । वटंमि मिलाणंमी नायव्वं जीवविप्पजढं ॥ ४५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org