________________
पिण्डनिर्युतेर्मलयगि
रीयावृत्तिः
॥ १८ ॥
मज्झिमनिद्धे दो पोरिसीउ अच्चित्तु मीसओ तइए । चउत्थीए सचित्तो पवणो दइयाइ मज्झगओ ॥ १४ ॥ पोरिसितिगमच्चित्तो निद्धजहन्नमि मीसग चउत्थी । सच्चित्त पंचमीए एवं लुक्खेऽवि दिण बुड्डी ॥१५॥ ( भा० ) व्याख्या - इह कालः सामान्यतो द्विविधः, तद्यथा - स्निग्धो रूक्षश्च तत्र यः सजलः सशीतश्च स स्निग्धः, उष्णो रूक्षः, स्निग्धोऽपि त्रिधा, तद्यथा— एकान्तस्निग्धो मध्यमो जघन्यश्च तत्र एकान्तस्निग्धः अतिस्निग्धः, रूक्षोऽपि त्रिधा, तद्यथा — जघन्यो मध्यम उत्कृष्टः, उत्कृष्टो नाम अतिशयेन रूक्षः, तत्रैकान्तस्त्रिग्धकाले बस्तिगतो वायुकायः उपलक्षणमेतत् तेन दृतिस्थोऽपि एकां पौरुषीं यावदचेतनो भवति, द्वितीयस्यास्तु पौरुष्याः प्रारम्भेऽपि मिश्रः, स च तावद्यावत्परिपूर्णा द्वितीया पौरुषी, तृतीयस्यां तु पौरुष्यामादित एव सचित्तः, तत ऊर्द्ध सचित्त एव, मध्यमे तु स्निग्धकाले द्वे पौरुष्यौ यावदचित्तस्तृतीयस्यां तु पौरुष्यां मिश्रः, चतुर्थ्यां सचेतनः, जघन्ये च स्निग्धकाले हत्यादिमध्यगतो वायुः पौरुषीत्रिकं यावदचित्तः, चतुर्थपौरुष्या मिश्रः, पञ्चम्यां तु सचेतनः, एवं रूक्षेऽपि द्रष्टव्यं केवलं तत्र दिनटद्धिः कर्त्तव्या, सा चैवं - जघन्यरूक्षकाले बस्त्यादिगतः पवनो दिनमेकमचित्तो द्वितीये दिने मिश्रस्तृतीये सचित्तः, मध्यमरूक्षकाले | दिनद्वयमचित्तस्तृतीयदिने मिश्रश्चतुर्थदिने सचेतनः, उत्कृष्टरुक्षकाले दिनत्रयमचित्तश्चतुर्थदिने मिश्रः पञ्चमादने सचित्तः ॥ सम्प्रत्यचित्तवायुकायप्रयोजनमाह
Jain Education International
दइएण वत्थिणा वा पओयणं होज्ज वाउणा मुणिणो । गेलन्नंमि व होज्जा सचित्तमी से परिहरेज्जा ॥४२॥ व्याख्या—' दृतिना' दृतिस्थेन 'वस्तिना' बस्तिस्थेन वेति समुच्चये नद्याद्युत्तारे प्रयोजनं भवेद्वायुना मुनेः, अनेन जलस्थो वायु
For Personal & Private Use Only
पिण्डनिक्षेपे वातकायः
॥ १८ ॥
www.jainelibrary.org