SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ हत्यसयमेग गंता दइओ अच्चित्तु बीयए मीसो । तइयंमि उ सच्चित्तो वत्थी पुण पोरिसिदिणेसु ॥४१॥ व्याख्या-होर्द्धमपाटितेनापनीतमस्तकेन निकर्षितचन्तिर्वतिसर्वास्थ्यादिकचवरेणापरचर्ममयस्थिग्गलकस्थगितापानच्छिद्रेण सङ्कीर्णमुखीकृतग्रीवान्तर्विवरेणाजापश्वोरन्यतरस्य शरीरेण निष्पन्नश्चर्ममयः प्रसेवकः कोत्थलकापरपर्यायो दृतिः, स चाचित्तमुखवातभृतः । सन् दवरकेण गाढवद्धमुखो नद्यादिजले प्लाव्यमानः क्षेत्रतो हस्तशतमेकं यावदन्ता तावत्सः 'दृतिः' दृतिस्थो वातकायोऽचित्तः, प्रथमे | च हस्तशतेऽतिक्रान्ते सति द्वितीये प्रविशन् मिश्रो भवति, स च मिश्रस्तावद्भवति यावद् द्वितीयहस्तशतपर्यन्तः, ततो द्वितीये हस्तशतेऽतिकान्ते तृतीये प्रविशन् सचित्तो भवति, तत ऊर्द्ध सचित्त एव, अथवैकस्मिन्नेव हस्तशते गमनेन आगमनेन पुनर्गमनेन च क्रमेणाचित्तत्वादिकमवगन्तव्यं, यदिवा-हस्तशतगमनकालं परिभाव्यैकस्मिन्नपि स्थाने जलमध्यस्थितस्योक्तक्रमेणाचित्तत्वादिकं परिभावनीय, दृतिग्रहणं चो-|| पलक्षणं तेन बस्तावप्येवं द्रष्टव्यं, बस्तिश्च दृतिवत्स्वरूपतो भावनीयः, नवरमपरचर्ममयस्थिग्गलकस्थगितग्रीवान्तर्विवरोऽतिविवृतमुखीकृत-18 पाश्चात्यप्रदेशः स विज्ञेयः, तथा 'वत्थी पुण पोरसिदिणेमुत्ति स्थले स्निग्धं रुक्षं च कालमाश्रित्य ' बस्तिः ' बस्तिस्थो वातः, उपलक्षणमेतत् , तेन दृतिस्थोऽपि वातः स्थलस्थः स्निग्धं रूक्षं च कालमधिकृत्य यथाक्रमं पौरुषीषु दिनेषु चाचित्तादिरुपो वेदितव्यः । एनमेव गाथाऽवयवं भाष्यकृद् गाथाचतुष्टयेन व्याख्यानयति निद्धेयरो य कालो एगंतसिणिडमज्झिमजहन्नो । लुक्खोवि होइ तिविहो जहन्न मज्झो य उक्कोसो ॥१२॥ एगंतसिणिडंमी पोरिसिमेगं अचेअणो होइ । बिइयाए संमीसो तइयाइ सचेयणो वत्थी॥ १३ ॥ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ 7900 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy