________________
पिण्डनियु
तेर्मलयगिरीयावृत्तिः
पिण्डनिक्षेप वातकायः
॥१७॥
सवलय घणतणवाया अइहिम अइदुद्दिणे य निच्छयओ। ववहार पाइणाई अकंताई य अच्चित्तो ॥३९॥
व्याख्या-सह वलयैर्वर्त्तन्ते इति सवलया ये 'घणतणुवाय 'त्ति वातशब्दः प्रत्येकमभिसम्बध्यते, घनवातास्तनुवाताच, किमुक्तं भवति ?-ये नरकपृथिवीनां पार्थेषु घनवातास्तनुवाता वा वलयाकारेण व्यवस्थिता वलयशब्दवाच्याः, ये च नरकपृथिवीनामेवाधस्ताद् घनवातास्तनुवाताच, तथा ' अइहिम अइदुद्दिणे अति अतिशयेन हिमे निपतति अतिशयेन च 'दुर्दिने मेघतिमिरे मेधैर्गगनमण्डलस्याऽs|च्छादने ये वायवः, एप सर्वोऽपि वायुकायो निश्चयतः सचित्तः, अतिहिमातिदुर्दिनाभावे तु यः 'प्राचीनादिवातः' पूर्वादिदिग्वातः स व्यवहारतः सचित्तः, यस्तु 'आक्रान्तदिकः ' आक्रान्तपङ्कगादिसमुत्थपभृतिकः पश्चप्रकारो वक्ष्यमाणस्वरुपः सोऽचित्त इति ॥ आक्रान्तादिस्वरुपमेवाह
अकंतधंतघाणे देहाणुगए य पीलियाइस य । अच्चित्त वाउकाओ भणिओ कम्मट्ठमहणेहिं ॥४०॥
व्याख्या-आक्रान्ते-पादेनाक्रान्ते कर्दमादौ यो वातश्चिदिति शब्दं कुर्वन् समुच्छलति, यश्चाध्माते मुखबातभृते इत्यादौ वर्तते | यो वा 'घाणे' तिलपीडनयन्त्रे तिलपीडनवशात्सशब्दं विनिर्गच्छन्नुपलभ्यते, यश्च 'देहानुगतः' शरीराश्रितः, उच्छासनिःश्वासवातनिसर्गरूपः, 'पीलितं' सजलं निश्चोत्यमानं वस्त्रादि, आदिशब्दातालवन्तादिपरिग्रहः, तेषु च यः सम्भवति वातः एष पञ्चप्रकारोऽपि वातः कर्माष्टकमथनैरचित्तः प्रतिपादितः । सम्पति मिश्रं वायुकार्य प्रतिपिपादयिषुहत्यादिस्थस्याचित्तवातकायस्य जले स्थितस्य क्षेत्रमाश्रित्य स्थलस्थितस्य (च) कालमाश्रित्याचित्तादिविभागमाह
॥१७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org