________________
ओयणवंजणपाणगआयामुसिणोदगं च कुम्मासा । डगलगसरक्खसूई पिप्पलमाई उ उवओगो ॥ ३७॥ | व्याख्या-ओदन:-शाल्यादि भक्तं व्यञ्जनं-पत्रशाकतीमनादि पानक-काञ्जिकं, तत्र ह्यवश्रावणं प्रक्षिप्यते, ततस्तदपेक्षया काञ्जिकस्याग्निकायता आयामम्-अवश्रावणम् उष्णोदकम्-उद्धृत्तत्रिदण्डम्, एतेषां च पदानां समाहारद्वन्दः, चकारो मण्डकादिसमुच्चयार्थः, 'कुल्माषाः' पक्वा माषाः, एते चौदनादयोऽग्निनिष्पन्नत्वेनाग्निकार्यत्वादग्नयो व्यपदिश्यन्ते, भवति च तत्कार्यत्वात्तच्छब्देन व्यपदेशो यथा द्रम्मो भक्षितोऽनेनेत्यादौ, ओदनादयश्चाचित्तास्तत एतेषामचित्ताग्निकायत्वेनाभिधानं न विरुध्यते, तथा ' डगलकाः ' पकेष्टकानां खण्डानि 'सरजस्कः' भस्म 'सूची ' लोहमयी वस्त्रसीवनिका, अथवा सरक्खसूइत्ति रक्षा-भस्म सह रक्षया वर्तते इति सरक्षा सूची, किमुक्तं भवति?-रक्षा सूची चेति, 'पिप्पलकः ' किञ्चिदकः क्षुरविशेषः, आदिशब्दान्नखरदनिकादिपरिग्रहः, एतानि च डगलकादीनि पूर्वमग्निरूपतया परिणतान्यासीरन् , ततो भूतपूर्वगत्या सम्पत्यप्याग्निकायत्वेन व्यपदिश्यन्तेऽचित्तानि च, न चैतेषामचित्ताग्निकायत्वाभिधाने वि. रोधः॥ सम्पत्यचित्ताग्निकायस्य प्रयोजनमाह-उवओगो' एतेषामोदनादीनां य उपयोगो-भोजनादावुपयुज्यमानता तदचित्ताग्निकायेन साधनां प्रयोजनं, द्रव्यादिभेदाच्च चतुर्विधत्वमचित्ताग्निकायस्य प्रागिव यथायोगं भावनीयम् । उक्तस्तेजस्कायपिण्डः, सम्पति वायुकायपिण्डमाह
वाउक्काओ तिविहां सच्चित्तो मीसओ य अच्चित्तो। सच्चित्तो पण दुविहो निच्छयववहारओ चेव ॥ ३८ ॥
व्याख्या-वायुकायस्त्रिविधः, तद्यथा-सचित्तो मिश्रोऽचित्तश्च, सचित्तः पुनर्द्विधा-निश्चयतो व्यवहारतश्च ॥ एतदेव निश्चयव्यवहाराभ्यां सचित्तस्य द्वैविध्यमचित्तं चाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org