________________
पिण्डनियुक्तेर्मलयगि- रीयावृत्तिः
पिण्डनिक्षेपे तेजस्काय:
॥१६॥
| इतराणि त्वातपे, दोषाऽभावात् , तानि च छायायामातपे च शोषार्थ विसारितानि निरन्तरं 'पहित्ति प्रेक्षेत, येन परास्कन्दिनो नाप-| हरन्ति, इह पूर्वोक्तविधिना यतनापुरस्सरमपि धाव्यमानेषु वस्त्रेषु कथश्चिद्वायुविराधनारूपः षट्पदिकोपमर्दादिरूपो वाऽसंघमोऽपि सम्भाव्यते, ततस्तच्छुद्धयर्थं तस्य साधोगुरुणा कल्याणसंज्ञं प्रायश्चित्तं देयम् ॥तदेवमुक्तः सप्रपञ्चमप्कायपिण्डः, सम्पति तेजस्कायापेण्डमाह। तिविहो तेउकाओ सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निच्छयववहारओ चेव ॥ ३५ ॥
व्याख्या-त्रिविधस्तेजस्कायः, तद्यथा-सचित्तो मिश्रोऽचित्तश्च, सचित्तः पुनर्द्विविधः-निश्चयतो व्यवहारतश्च ॥ निश्चयव्यवहाराभ्यामेव सचित्तस्य द्वैविध्यमाह
इट्टगपागाईणं बहुमज्झे विज्जुमाइ निच्छयओ । इंगालाई इयरोत्ति व्याख्या-इष्टकापाकः प्रतीतः, आदिशब्दात् कुम्भकारपाकेक्षुरसकथनतुल्या(चुल्या)दिपरिद्रहः, तेषां च बहुमध्यभोग विद्युदादिश्च, विद्युदुक्लाप्रमुखतेजस्कायो निश्चयतः सचित्तः, शेषस्त्वङ्गारादिकः, 'अङ्गारः 'ज्वालारहितोऽग्निः, आदिशब्दाद् ज्वालादिपरिग्रहः, व्यवहारतः सचित्तः। सम्पति मिश्रं तेजस्कायमाह
___ मुम्मुरमाईउ मिस्सो उ ॥ ३६ ॥ व्याख्या-'मुर्मुरः' कारीषोऽग्निः, आदिशब्दादर्द्धविध्यातादिपरिग्रहः, इत्थंभूतो मिश्र इति ॥ साम्प्रतमचित्तं तेजस्कायपिण्डमाह
।॥१६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org