SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ कर्माणि, ततस्तत्रापि धावनक्रममाह-'पुव्वमहागडे यत्ति, पूर्व प्रथमं सर्वेषामपि यथाकृतानि वासांसिधावयेत्, पश्चात्क्रमेण इतरे द्वे, किमर्थमिति चेत् ? उच्यते-विशुद्धाध्यवसायस्फातिनिमित्तं, तथाहि-यान्यल्पपारकर्माणि तानि बहुकम्र्मापेक्षया स्तोकसंयमव्याघातकारीणि भवन्तीति तदपेक्षया शुद्धानि, तेभ्योऽपि यथाकृतान्यतिशुद्धानि, मनागपि पलिमन्थदोषकारित्वाभावात् , ततो यथा यथा पूर्व पर्व शुद्धानि प्रक्षाल्यन्ते तथा तथा संयमबहुमानवृद्धिभावतो विशुद्धाध्यवसायस्फातिरिति पूर्व यथाकृतानीत्यादिक्रमः॥ सम्पति प्रक्षालनक्रियाविधिमुपदर्शयति अच्छोडपिट्टणासु य न धवे धोए पयावणं न करे । परिभोग अपरिभोगे छायायव पेह कल्लाणं ॥ ३४ ॥ व्याख्या-इह वस्त्राणि धावन् आच्छोटनपिट्टनाभ्यां न धावत् , तत्र आच्छोटनं-रजकैरिव शिलायामास्फालनं पिट्टनं–धनहीनरण्डारमणीभिरिव पुनः पुनः पानीयप्रक्षेपपुरस्सरमुद्वयोतिपट्टनेन कुट्टनं, सूत्रे च सप्तमी तृतीयाऽर्थे, यथा 'तिमु तेसु अलडिन्या पुहवी' इत्यादौ, तुशब्दोऽनुक्तसमुच्चयार्थः, स च पाणिपादन प्रमृज्य प्रमृज्य यतनया प्रक्षालयेदिति समुचिनोति, ततो 'धौते' प्रक्षालिते, धावनजलस्पर्शजनितशीताफ्नोदायात्मनो वस्त्रस्य वा शोषणायाग्नेः प्रतापनं न कुर्यात्, मा भूत धावनजलाद्रीभूतहस्तादितो वस्त्रतो वा कथञ्चिद्विन्दुनिपातेनाग्निकायविराधना, यद्येवं तर्हि कथं वस्त्रस्य शोषणं कर्त्तव्यमिति शोषणविधिमाह-परिभोग्यानि आरिभोग्यानि च यथा-18 क्रमं छायाऽऽतपयोः शोषयेत् , सूत्रे च विभक्तिलोप आपत्वात् , परिभोग्येषु हि वस्त्रेषु तथा पूर्व शोधितेष्वपि कथञ्चित् षट्पदिकाः सम्भ-18 वन्ति, सा च प्रक्षालनकाले तथोपमर्दिताऽपि कथञ्चिज्जीविता सती दिनकराऽऽतपसम्पर्के म्रियन्ते, ततस्तद्रक्षणार्थ तानि छायायां शोषयेत् , १ त्रिभिस्तैरलङ्कृता पृथ्वी। Jain Education Internal oral For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy