________________
पिण्डनिर्यु
ण्डिकादिषु भग्नेषु तस्य नीवोदकस्य ग्रहणं, तच्च नीवोदकग्रहणं 'स्थिते' निवृत्ते ' वर्षे ' दृष्टौ, अन्तर्मुहूर्त्तादूर्द्धमिति गम्यते, अन्तर्मुहूर्त्तेन क्तेर्मलयगि- * सर्वात्मना परिणमनसम्भवात्, नास्थिते, किमित्याह — 'मीसगं' ति मिश्र, निपतति वर्षे नीवोदकं मिश्र भवति, तथाहि — पूर्व निपतितरीयावृत्तिः मचित्तीभूतं तत्कालं तु निपतत्सचित्तमिति मिश्रं ततः स्थिते वर्षे तत्प्रतिग्राह्यं तस्मिंश्च प्रतिगृहीते तन्मध्ये ' छारो ' त्ति क्षारः प्रक्षेपणीयो येन भूयः सचित्तं न भवति, जलं हि केवलं प्रासुकीभूतमपि भूयः प्रहरत्रयादूर्ध्वं सचित्तीभवति, ततस्तन्मध्ये क्षारः प्रक्षिप्यते, अपि चक्षारप्रक्षेपे समलमपि जलं प्रसन्नतामाभजति, प्रसन्नेन च जलेन प्रक्षाल्यमानान्याचार्यादिवासांसि सुतेजांसि जायन्ते तत एतदर्थमपि क्षार - प्रक्षेपो न्याय्यः ॥ सम्प्रति धावनगतमेव क्रमविशेषमाह -
॥ १५ ॥
गुरुपच्चक्खाणिगिलाणसे हमाईण धोत्रणं पुव्वं । तो अप्पणो पुव्यमहाकडे य इयरे दुवे पच्छा ॥ ३३ ॥
व्याख्या - गुरुप्रत्याख्यानिग्लान शैक्षादीनां ' पूर्व्वं ' प्रथमं घावनं कुर्यात् ' ततः ' पथादात्मनः, इयमत्र भावना - इह साधुभिः | परम हितमात्मनः समीक्षमाणैरवश्यं गुर्वादिषु विनयः प्रयोक्तव्यः, विनयवलादेव सम्यग्दर्शनज्ञान चारित्रवृद्धिसम्भवाद्, अन्यथा दुर्बिनीतस्य सतो गच्छवासस्यैवा सम्भवतः सकलमूलहानिप्रसक्तेः, ततो धावनपवृत्तेन साधुना प्रथमतो गुरूणाम् - आचार्याणां वासांसि प्रक्षालनीयानि, ततः प्रत्याख्यानिनां क्षपकप्रभृतीनां तदनन्तरं ग्लानानां ततोऽप्यनन्तरं शैक्षकादीनां तत्र शैक्षा— अभिनवप्रव्रजिता आदिशब्दाद्वालादिपरिग्रहः, सूत्रे च 'सेहमाईण' इत्यत्र मकारोऽलाक्षणिकः, 'ततः ' तदनन्तरमात्मनः इह सर्वेषामपि गुर्वादीनां यथायोगं त्रिविधाअन्यपि प्रक्षालनीयवस्त्राणि सम्भवन्ति, तद्यथा-यथाकृतान्यल्पपरिकर्माणि बहुपरिकर्माणि च तत्र यानि परिकर्म्मरहितान्येव तथारूपाणि लब्धानि तानि यथाकृतानि यानि चैकं वारं खण्डित्वा सीवितानि तान्यपरिकर्माणि यानि च बहुधा खण्डित्त्रासीवितानि तानि बहुपरि
Jain Education International
For Personal & Private Use Only
पिण्ड निक्षेपे वधावने
जलग्रहः
।। १५ ।।
www.jainelibrary.org