________________
केई एकेक्कनिास संवासेउं तिहा परिच्छंति । पाउणइ जइ न लग्गंति छप्पइया ताहि धोवंति ॥ ३१ ॥
व्याख्या केचिद् एके सूरय एवमाहुरेकैकां ' निशां' रात्रि 'त्रिधा' त्रिभिः प्रकारैः पूर्वोक्तः संवास्य तद्यथा-एकां निशां शोधनीयं कल्पं बहिः प्राणोति, द्वितीयां निशां संस्तारकतटे स्थापयति, तृतीयां तु निशां स्वपन् स्वापस्थानस्योपरि लम्बमानमधोमुखं प्रसारितं शरीरलग्नपायपर्यन्तं स्थापयति, एवं त्रिधा संवास्य 'परीक्षन्ते ' दृष्टया निभालयन्ति, निभालिताश्चेन्न दृष्टास्ततः सूक्ष्मषदपदिकाविशोधनार्थ शरीरे प्रावृण्वन्ति, प्राकृते च यदि 'न लगति' न लग्नाः प्रतिभासन्ते पदपदिकास्ततः प्रक्षालयन्ति, लगन्ति चेत्तर्हि भूयो भूयस्तावदृष्टया शरीरप्रावरणेन च परीक्षन्ते यावन्न सन्तीति निश्चितं भवति, ततः प्रक्षालयन्तीति, एषोऽपि विधिरदूषणात्समीचीन इवाऽऽचार्यस्य प्रतिभासत इति मन्यामहे ।। वस्त्रप्रक्षालनं च जलेन भवति, अतो जलग्रहणे विधिविशेषमाह
निव्वोदगरस गहणं केई भाणेसु असुइ पडिसेहो । गिहिभायणेसु गहणं ठिय वासे मीसगं छारो ॥ ३२॥ | ___व्याख्या-वर्षासु गृहच्छादनप्रान्तगलितं जलं नवोदकं तस्य, इह यदि वर्षाकालादक सर्वोऽप्युपधिः कथञ्चित्सामग्र्यभावतो न| प्रक्षालितस्तर्हि प्राप्ते वर्षे सति साधुभिनींवोदकस्य-गृहपटलान्तोत्तीर्णस्य जलस्य वस्त्रपक्षालनार्थ 'ग्रहणम्' आदानं कर्त्तव्यं, तद्धि रजोगु|ण्डितधूमधूम्रीकृतदिनकरातपसम्पर्कसोष्मतीव्रसंस्पर्शतः परिणतत्वादचित्तम् , अतस्तदहणे न काचिद्विराधना, नीबोदकस्य ग्रहणे केचिदाहुः-'भाजनेषु' स्वपात्रेषु नीबोदकस्य ग्रहणं कर्त्तव्यमिति, अत्राऽऽचार्य आह–'अमुइ पडिसेहो' 'असुइ' ति भावप्रधानोऽयं निर्देशः,ततोयमर्थः-'अशुचित्वाद् ' अपवित्रत्वात्परोक्तविधिना नीबोदकग्रहणस्य प्रतिषेधः, नीबोदकं हि मलिनं मलिनत्वाचाशुचि ततः कथं येषु पात्रेषु भोजनं विधीयते तेषु तस्य ग्रहण पपन्नं भवति ?, मा भूत लोके प्रवचनगर्दा यथाऽमी अशुचय इति, ततः 'गृहिभाजनेषु' गृहिसत्केषु कु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org