________________
पिण्डनियुक्तर्मलयगिरीयावृत्तिः
6464
लग्नः प्रावियते इत्यर्थः, द्वितीयः क्षौमस्तस्योपरि, तृतीयः कम्बलमयस्तस्याप्युपरि, ततः प्रक्षालनकाले विश्रमणाविधिप्रारम्भे रात्रौ स्वपन । पिण्डनिक्षेपे अभ्यन्तरपरिभोगं सदैव शरीरेण सह संलग्नं परिभुज्यमानं क्षौम कल्पमुपरि शेषकल्पद्वयादहिस्त्रीणि दिनानि यावत्पावृणोति येन तत्स्थाः
| वधावनपट्पदिकाः क्षुधा पीड्यमाना आहारार्थम् अथवा शीतादिना पीड्यमानास्तं बहिः प्राब्रियमाणं कल्पमपहायान्तरे कल्पद्वये शरीरे वा लग-1
विधिः न्ति, एष प्रथमो विश्रमणाविधिः, एवं त्रीणि दिनानि प्रावृत्य ततस्त्रीण्येव दिनानि यावद्रात्रौ स्वापकाले नातिदूरे स्थापयति, किमुक्तं भवति ?-स्वापकाले संस्तारकतट एव स्थापयति, येन प्रथम विश्रमणविधिना या न निःमृताः पटपदिकास्ता अपि क्षुधा पीडयमाना आहारार्थ ततो विनिर्गत्य संस्तारकादौ लगन्ति, एष द्वितीयो विश्रमणाविधिः, तत एकां'निशां' रात्रिं, तुः समुच्चये, स्वपन् स्वापस्थानस्योपरि लम्बमानमधोमुखं शरीरलग्नमायपर्यन्तं प्रसारितं कृत्वा संस्थापयेत्, संस्थाप्य च पश्चात्परीक्षेत, दृष्टया प्रावरणेन च षट्पदिका निभालयेत्, तद्यथा-प्रथमं तावदृष्टया निभालयेत् , दृष्ट्या निभालिता अपि यदि न दृष्टास्ततः सूक्ष्मषद्पदिकारक्षणार्थं भूयः शरीरे प्राणोति, येन ता आहारार्थ शरीरे लगन्ति, एवं परीक्षणे कृते यदि ता न स्युस्तदा प्रक्षालयेत् , अथ स्युस्तहिं पुनः पुनर्निर्भाल्य यदा न सन्तीति निश्चितं भवति तदा प्रक्षालयेत्, एवं सप्तभिर्दिनैः कल्पशोधना, एतदनुसारेण शेषस्याप्युपधेः शोधना भावनीया । इह विश्रमणा प्रक्षालनीयस्यापरिभोगरूपा उक्ता, ततो यत्तस्य बहिःप्रावरणादिरूपः परिभोगः स परमार्थतोऽपरिभोग इति न तदा विश्रमणा विरुध्यते ॥ एनामेव गाथां भाष्यकृद् व्याख्यानयति
॥१४॥ | धोवत्थं तिन्नि दिणे उवरि पाउणइ तह य आसन्नं । धारेइ तिन्नि दियहे एगदिणं उवरि लंबतं ॥११॥ (भा.)
इयं व्याख्यातार्था । अत्रैव विश्रमणाविधौ मतान्तरमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org