________________
999白白9999999999999999999999999。
कालभावितपोनियमसंयमानां हानिर्भवति, तस्मान यावजीवं क्षपणं कार्य । पुनरपि परः माह-यदि सर्वकालं क्षपणं कमशक्तस्तहि | | षण्मासक्षपणं कृत्वा पारणकमलेपकृता विधत्ता, गुरुराह-यद्येवं कुर्वस्तपःसंयमयोगान् कर्तुं शक्नोति तर्हि करोतु, न कोऽपि तस्य निषेद्धा, ततो भूयोऽपि चोदको ब्रूते-यद्येवं तर्हि षण्मासानुपोष्याचाम्लेन भुतां, न चेच्छनोति तत एकदिनादिहान्या तावत्परिभावयेत् । यावच्चतुर्थमुपोष्याचाम्लेन पारयेत्, एवमप्यसंस्तरणे सदैवालेपकृतं गृह्णीयात् । अमुमेव गाथया निर्दिशतिलितंति भाणिऊणं छम्मासा हायए चउत्थं तु । आयंबिलस्स गहणं असंथरे अप्पलेवं तु ।। ६१५॥
व्याख्या-लिप्तं सदोषमिति भणित्वाऽलेपकृद्भोक्तव्यं तीर्थकरगणधरैरनुज्ञातमिति गुरुवचनम् । अत्र चोदक आह-यावज्जीवमेव मा भड़ा, नो चेत् यावज्जीवमभोजनेन शक्नोति तर्हि षण्मासानुपोष्य आचाम्लेन भुतां, न चेदेवमपि शक्नोति तत एकदिनादिहान्या तावदा. त्मानं तोलयेत् यावञ्चतुर्थमुपोष्याचाम्लस्य ग्रहणं करोतु, एवमप्यसंस्तरणे-अशक्तावल्पलेपं गृह्णातु । एनामेव गाथां गाथाद्वयेन विवृणोति| आयंबिलपारणए छम्मास निरंतरं तु खविऊणं । जइ न तरइ छम्मासे एगदिणूणं तओ कुणउ ॥ ६१६ ॥
एवं एकेक्कदिणं आयंबिलपारणं खवेऊणं । दिवसे दिवसे गिण्हउ आयंबिलमेव निल्लेवं ॥ ६१७ ॥ .. व्याख्या-यदि सर्वकालं क्षपणं कर्तुमशक्तस्तहि षण्मासान्निरन्तरं क्षपयित्वा पारणके आचाम्लं करोतु, यदि षण्मासानुपवस्तुं न शक्नोति तत एकदिनोनान् करोतु, एवं षण्मासावधिरेकैकं दिनं परित्यज्याचाम्लेन पारणकं तावत्करोतु यावच्चतुर्थ, एवमप्यसामर्थे दिवसे दिवसे गृह्णात्वाचाम्लं निर्लेपमिति ॥ गुरुराह
中中中中中中中中中中中中中中中中中中中中中中中中中中中中中中
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org