________________
व्याख्या-अपरिणतमपि द्विविध, तद्यथा-' द्रव्ये ' द्रव्यविषयं 'भावे' भावविश्यं, द्रव्यरूपमारिणतं भावतोऽपरिगत चेत्यर्थः पुनरप्येकै दाग्रहीतसम्बन्धाविया, तद्यथा-व्यापरिणतं दासक ग्रहीत्सकं च, एवं भावापरिणतमपि । तत्र द्रव्यापरिणतस्वरूपमाहजीवत्तंमि अविगए अपरिणयं परिणयं गए जीवे । दिलुतो दुखदही इय अपरिणय परिणयं तं च ॥ ६१० ॥
व्याख्या-'जीवत्वे ' सचेतनत्वे 'अविगते' अभ्रष्टे पृथिवीकायादिक द्रव्यमपरिणतमुच्यते, गते तु जीवे परिणतम् । अत्र दृष्टान्तो दुग्धदधिनी, यथा हि दुग्यं दुग्धत्वात् परिनटं दधिभावमापनं परिणतमुच्यते, दुग्धभावे चावस्थितेऽरिणतम्, एवं पृथिवीकायादिकमपि स्वरूपेण सजीव सजीवत्वापरिभ्रष्टमपरिणतमुच्यते, जीवेन विषमुक्तं परिणतमिति । तच यदा दातुः सत्तायां वर्चते तदा दातृसत्कं, यदा तु ग्रहीतु: सत्तायां तदा ग्रहीत्सत्कमिति । सम्पति दाविषयं भावापरिणतमाहदुगमाई सामन्ने जइ परिणमई उ तत्थ एगस्स । देमित्ति न सेसाणं अपरिणयं भावओ एयं ॥ ६११॥
व्याख्या-एवं 'द्विकादिसामान्ये' भ्रात्रादिद्विकादिसाधारणे देयवस्तुनि यकस्य कस्यचिदामीत्येवं भावः परिणमति, न शेषाणां, एतद् भावतोऽपरिणतं, न भावापेक्षया देयतया परिणतमित्यर्थः । अथ साधारणानिसृष्टस्य दातृभावापरिणतस्य च का परस्पर प्रतिविशेषः ? , उच्यते, साधारणानिसृष्टं दायकपरोक्षत्वे, दातृभावापरिणतं तु दायकसमक्षवे इति । सम्पति ग्रहीतविषय भाषापरिणतमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org