SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ पिण्डनिक्षेपे वधावनं पिण्डनियु- ___ व्याख्या-प्रत्यवतायते पात्रमस्मिन्निति प्रत्यवतार:-उपकरणं पात्रस्य प्रत्यवतारः-पात्रवः पात्रनियोगः षड्डिधः, तथा रजोहर- तेर्मलयगि-I माणस्य सक्ते द्वे निपये, तद्यथा-बाह्या अभ्यन्तरा च, इह सम्पति दशिकाभिः सह या दण्डिका क्रियते सा सूत्रनीत्या केवलैब भवति न रीयावृत्तिः सदशिका, तस्या निषद्यात्रयं, तत्र या दण्डिकाया उपरि एकहस्तप्रमाणायामा तिर्यग्वेष्टकत्रयपृथुत्वा कम्बलीखण्डरूपा सा आद्या निषद्या, तस्याश्चाग्रे दशिकाः सम्बध्यन्ते, तां च सदशिकामग्रे रजोहरणशब्देनाचार्यो ग्रहीष्यति, ततो नासाविह ग्राह्या, द्वितीया तु एनामेव निषद्यां तिर्यग् बहुभिव्यष्टकरावेष्टयन्ती किश्चिदधिकहस्तप्रमाणायामा हस्तप्रमाणमात्रपृथुत्त्वा वस्त्रमयी निषद्या सा अभ्यन्तरा निषद्योच्यते, तृतीया तु तस्या एवाभ्यन्तरनिषद्यायास्तिर्यग्वेष्टकान् कुर्वती चतुरङलाधिकैकहस्तमाना चतुरस्रा कम्बलमयी भवति, सा चोपवेशनोपकारित्वादधुना पादपोछनकमिति रूढा, सा बाह्या निषयेत्यभिधीयते, मिलितं च निषधात्रयं दण्डिकासहितं रजोहरणमुच्यते, ततो रजोहरणस्य सक्ते द्वे निषधे इति न विरुध्यते, तथा त्रयः पट्टाः, तद्यथा-संस्तारकपट्ट उत्तरपट्टश्चोलपट्टश्च, एते च सुप्रतीताः, तथा 'पोत्ति'त्ति मुखपोतिका, मुखपिधानाय पोतं-वस्त्रं मुखपोतं मुखपोतमेव हस्वं चतुरङ्गलाधिकवितस्तिमात्रप्रमाणत्वात् मुखपोतिका, मुखवत्रिकेत्यर्थः, 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानीति वचनाच्च प्रथमतो नपुंसकत्वेऽपि प्रत्यये समानीते स्त्रीत्वं, तथा 'रजोहरणं 'ति दण्डिकावष्टकत्रयप्रमाणपृथुत्वा एकहस्तायामा हस्तत्रिभागायामदशापरिकलिता प्रथमा या निषद्या प्रागुक्ता सा रजोहरणं, तथा च भाष्यद्वक्ष्यति-'एगनिसेजं च रयहरणं,' बाह्याभ्यन्तरनिषद्यारहितमेकनिषद्यं सदशं रजोहरणमिति । एतानुपधिविशेषान् ‘न विश्रमयेत्' नापरिभोग्यान् स्थापयेत् , कस्मादिति चेत् ?, उच्यते, प्रतिवासरमवश्यमेतेषां विनियोगभावात् , ततो यतनया-वस्त्रान्तरितेन हस्तेन ग्रहणरूपया सक्रम णा-षट्पदिकानामप्रक्षालनीयेषु वस्त्रेषु सङ्क्रमणं, ततो 'धावनं' प्रक्षालनमिति ॥ एनामेव गाथां भाष्यकृद् गाथात्रयेण व्याख्यानयति dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy