SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अकर्त्तरीत्यनेन पञ् प्रत्ययः, पात्रस्य निर्योगः पात्रनिर्योगः-पात्रोपकरणं पात्रकबन्धादिः, उक्तं च-" पैत्तं पत्ताबंधो पायढवणं च पायकेसरिया । पडलाइं रयत्ताणं च गोच्छओ पायनिज्जोगो ॥” इति । आह-किं सर्वेषामेव वस्त्राणि वर्षाकालादर्वागेव प्रक्ष्याल्यन्ते ? किं वास्ति केषाश्चिद्विशेषः ?, अस्तीति ब्रूमः ॥ केषामिति चेदत आहआयरिय गिलाणाण य मइला मइला पुणोऽवि धावति । मा हु गुरूण अवण्णो लोगंमि अजीरणं इयरे ॥ २७॥ व्याख्या-इह ये कृतपूर्विणो भगवत्प्रणीतप्रवचनानुगताचारादिशास्त्रोपधानानि अधीतिनः स्वसमयशास्त्रेषु ज्ञातिनः सकलस्वपरसमयशास्त्रार्थेषु कृतिनः कारितिनश्च पञ्चविधेष्वाचारेषु प्रवचनार्थव्याख्याधिकारिणः सद्धर्मदेशनाऽभियुक्ताः सूरयस्ते आचार्याः, आचार्यग्रहणमुपलक्षणं तेनोपाध्यायादीनां प्रभूणां परिग्रहः, तेषां, तथा 'ग्लानाः' मन्दाः तेषां च, पुनः पुनः मलिनानि वस्त्राणि 'धाव्यन्ते' प्रक्षाल्यन्ते, मलिनानीत्यत्र नपुंसकत्वे प्राप्तेऽपि सूत्रे पुंस्त्वनिर्देशः प्राकृतलक्षणवशात् , तथा चाह-पाणिनिः स्वप्राकृतलक्षणे-"लिङ्ग व्यभिचार्यपी"ति, प्रस्तुतेऽर्थे कारणमाह-'मा हु' इत्यादि, मा भवतु, 'हुः' निश्चितं, गुरूणां मलिनवस्त्रपरिधाने लोके ' अवर्णः ' अश्लाघा, यथा-निराकृतयोऽमी मलदुरभिगन्धोपदिग्धदेहास्ततः किमेतेषामुपकण्ठं गतैरस्माभिरिति, तथा ' इतरस्मिन् ' ग्लाने मा भवत्वजीमिति भूयो भूयो मलिनानि तेषां प्रक्षाल्यन्ते ॥ सम्पति ये उपधिविशेषा न विश्रम्यन्ते तन्नामग्राहं गृहीत्वा तेषां धावने विधिमाह पायरस पडोयारो दुनिसिज्ज तिपट्ट पोत्ति रयहरणं । एए उन वीसामे जयणा संकामणा धुवणं ॥ २८ ॥ १ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटला रजस्त्राणं च गोच्छकः पात्रनियोगः ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy