________________
पिण्डनियुतेर्मलयगि.रीयात्तिः
॥१२॥
मात्य भिक्षाद्यर्थं विनिर्गतस्य साधोर्मेघदृष्टौ मलिनवस्त्रकम्बलसम्पर्कतोऽप्कायविराधना भवति, एते 'वर्षाखि'ति वर्षाकालप्रत्यासन्नोऽपि अप्कायपिकालो वर्षा इत्युच्यते, तत्सामीप्यात् , भवति च तत्सामीप्यात्तच्छन्दव्यपदेशो, यथा गङ्गायां घोष इत्यत्र, ततो ' वर्षासु' वर्षाप्रत्यासन्ने पिण्डनिक्षेपे काले वस्त्रादीनामप्रक्षालने दोषाः तस्मादवश्यं वर्षाकालादर्वाग् वासांसि प्रक्षालनीयानि । ये च सम्पातिमसत्त्वोपयातादयो दोषाश्चीवरप्रक्षालने प्रागुक्तास्तेऽपि सूत्रोक्तनीत्या यतनया प्रवर्त्तमानस्य न सम्भवन्तीति वेदितव्यम् । यो हि सूत्राज्ञामनुसृत्य यतनया सम्यक् | प्रवर्त्तते स यद्यपि कथश्चित्पाण्युपमईकारी तथापि नासौ पापभाग् भवति, नापि तीव्रप्रायश्चित्तभागी, सूत्रबहुमानतो यतनया प्रवर्त्त-| मानत्वात् , वक्ष्यति च सूत्रम्-'अपत्ते च्चिय वासे सव्वं उवहिं धुवंति जयणाएं इति, ततो न कश्चिद्दोषः, नापि तदा वस्त्रप्रक्षालने बकुशं : चरणं, सूत्राज्ञया प्रवर्त्तमानत्वात् , नाप्यस्थानस्थापनदोषो, लोकानामपि वर्षासु वाससामपाक्षलने दोषपरिज्ञानभावात् , न चैतेऽनन्तरोक्ता अतिभारादयो दोषा ऋतुबद्धे काले वाससामप्रक्षालने सम्भवन्ति, तस्मान्न तदा प्रक्षालनं युक्तमिति स्थितम् ॥ सम्पति वर्षाकालादगपि यावानुपधिरुत्कर्षतो जघन्यतश्च प्रक्षालनीयो भवति तावत्तमभिषित्सुराह__ अप्पत्तेच्चिय वासे सव्वं उवहिं धवति जयणाए । अस इए उ दवरस य जहन्नओ पाय निज्जोगो॥२६॥
'अप्राप्ते एव' अनायाते एव 'वर्षे' वर्षाकाले, वर्षाकालात मनागक्तिने काले इत्यर्थः, जलादिसामठयां सत्यां 'उपधिम् । उपकरणं यतनया यतयः प्रक्षालयन्ति, 'द्रवस्य ' जलस्य पुनः 'असति' अभावे, जघन्यतोऽपि पात्रनिर्योगोऽवश्यं प्रक्षालनीयः, इह |निस्पूर्वो युजिरुपकारे वत्तेते, तथा चोक्तं-'पाठो दुखले निज्जोगो उवयारो' इति, ततो नियुज्यते-उपक्रियतेऽनेनेति नियोंग-उपकरणम् ,
१ अप्राप्तायामेव वर्षायां सर्वमुपधि प्रक्षालयन्ति यतनया ।
'अनायाते रघुवति जयामामधित्सुराह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org