________________
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀|
संपातिमाना मक्षिकादीनां प्रक्षालनजलादिषु निपततां वायोश्च 'वधः' विनाशो भवति, तथा 'प्लावनेन' प्रक्षालनजलपरिष्ठापने पृथिव्या रेल्लणेन 'भूतोपघातः' पृथिव्याश्रितकीटिकादिसत्त्वोपमो भवति, तस्मान्न ऋतुबद्धे काले वस्त्रं प्रक्षालनीयम् ।। नन्वेते दोषा वर्षाकालादागपि धावने सम्भवन्ति ततस्तदानीमपि न चीवराणि प्रक्षालनीयानि, तन्न, तदानीं चीवरापक्षालनेऽनेकदोषसम्भवात् तानेवाह
अइभार चुडण पणए सीयलपाउरणऽजीरगेलण्णे । ओहावणकायवहो वासासु अ धोवणे दोसा ॥ २५॥ |
व्याख्या-इह वर्षाकालादगिपि यदि वासांसि न प्रक्षाल्यन्ते तदानीम् अतिभारः ' गुरुत्वं वस्त्राणां भवति, तथाहि-वासांसि मलविद्धानि यदा जलकणानुषक्तसमीरणमात्रेणापि स्पृष्टानि भवन्ति तदाऽपि स मलः क्लिन्नीभूय-दृढतरं वस्त्रेषु सम्बन्धमापद्यते, कि पुनर्वासु सर्वतः सलिलमयीषु ?, ततो वर्षासु क्लिन्नमलसम्पर्कतो वासांसि गुरुतरभाराणि भवन्ति, तथा 'चुडणन्ति वाससां वर्षोंकालादळगप्यधावने वर्षासु जीर्णता भवति शाटो भवतीत्यर्थः, किमुक्तं भवति ?-यदि नाम वर्षाकालाद_गपि वस्त्राणि न प्रक्ष्याल्यन्ते ततो वर्षासु तेषां मलक्लिन्नतया जीर्णताभवनेन शाटो भवति, न च वर्षास्वभिनववस्त्रग्रहणं, न चाधिकः परिग्रहः, ततो ये वस्त्राभावे दोषाः समये प्रसिद्धास्ते सर्वेऽपि यथायोगमुपढौकन्ते इति, तथा मलक्लिन्नेषु वस्त्रेषु शीतलजलकणसंस्पर्शतो मलस्याद्रीभावतः 'पनकः' वनस्पतिविशेषः प्राचुर्येणोपजायते, तथा च सति प्राणिव्यापादनासक्तिः, तथा निरन्तरं सर्वतः प्रसरेण निपतति वर्षे शीतले च मारुते वाति मलस्याद्रीभावतः शीतलीभूतानां वाससां प्रावरणे भुक्ताऽऽहारस्याजीर्णतायाम्-अपरिणतौ 'ग्लानता' शरीरमान्द्यमुज्जृम्भते, तथा च सति प्रवचनस्यापभ्राजना, यथा-अहो बठरशिरोमणयोऽमी तपखिनो न परमार्थतस्तत्त्ववेदिनो ये नाम वर्षास्वप्रक्षालितानां वाससां परिभोगे मान्द्यमुपजायते इत्येतदपि नावबुध्यन्ते ते पृथग्जनापरिच्छेद्यं स्वर्गापवर्गमार्गमवगच्छन्तीति दुःश्रद्धेयं, तथा वर्षास्वप्रक्षालितानि वस्त्राणि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org