SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु तेर्मलयगि अप्कायपिपिण्डनिक्षेपे रीयावृत्तिः परिसेयपियणहत्थाइधोवणं चीरधोवणं चेव । आयमण भाणधुवणं एमाइ पओयणं बहुहा ॥ २३ ॥ व्याख्या-परिपेको-दुष्टवणादेरुत्थितस्योपरि पानीयेन परिषेचनं, पानं तृडपनोदाय जलस्याभ्यवहरणं, 'हस्तादिधावनं' करचरणप्रभृतिशरीरावयवानां कारणमुद्दिश्य प्रक्षालनं, 'चीवरधावनं ' वस्त्रप्रक्षालनम् , अस्य भिन्नविभक्तिनिर्देशो न सदैव साधुनोपधिपक्षालनं कर्त्तव्यमिति प्रदर्शनार्थः, 'आचमनं' पुरीपोत्सर्गानन्तरं शौचकरणं 'भाणधुवणं ति पात्रकादिभाजनप्रक्षालनम्, एवमादिकम्, आदिशब्दात् ग्लानकार्यादिपरिग्रहः, अचित्तेनाप्कायेन प्रयोजनं, 'बहुधा' बहुप्रकारं द्रष्टव्यम् ॥ इह चीवरधावनमित्युक्तं, तच्च संयतानां वर्षाकालादर्वाक कल्पते न शेषकालं, शेषकाले त्वनेकदोषसम्भवात, तानेव दोषान् दर्शयति| उउबद्ध धुवण बाउस बंभविणासो अठाणठवणं च । संपाइमवाउवहो पावण भूओवधाओ य ॥ २४ ॥ व्याख्या-वर्षाकालस्य प्रत्यासन्नं कालमपहाय शेषे ऋतुबद्धे काले चीवरस्य धावने चरणं बकुशं भवति, उपकरणबकुशत्वात् , तथा 'ब्रह्मविनाशः' मैथुनप्रत्याख्यानभङ्गः, प्रक्षालितवासःपरिधानभूषितशरीरो हि विरूपोऽपि रमणीयत्वेन प्रतिभासमानो रमणीनां रमणयोग्यो|ऽयमिति प्रार्थनीयो भवति, किं पुनः शरीरावयवरामणीयकोपशोभितः?, ततः समस्तकामिनीनां प्रार्थयमानानां सललितदर्शिततियग्वलिताक्षनिरीक्षणाङ्गमोटनव्याजोपदर्शितकक्षामूलसद्वृत्ततारमणीयपीनकठिनपयोधरविस्तारगम्भीरनाभीप्रदेशपरिभावनतोऽवश्यं ब्रह्मचर्यादपभ्रंशम-| घिश्रयते, तथा अस्थानस्थापनम् , इयमत्र भावना-यदि नाम कथञ्चित्तत्त्ववेदितया संयमविषयनिष्पकम्पधृत्यवष्टम्भतो न ब्रह्मचर्यादपभ्रश्यति, तथाऽपि लोकेन सोऽस्थाने स्थाप्यते, यथा नूनमयं कामी, कथमन्यथाऽऽत्मानमित्थं भूषयति?, न खल्वकामी मण्डनप्रियो भवतीति, तथा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy