________________
तण्डुलानां चिरकालपानीयभिन्नाभिन्नत्वेन पाकस्यानियतकालत्वात् , तथाहि-ये चिरकालसलिलभिन्नास्तण्डुला न च नवीना इन्धनादि । सामग्री च परिपूर्णा ते सत्वरमेव निष्पद्यन्ते, शेषास्तु मन्दं, ततस्तेषामपि मतेन कदाचिन्मिश्रस्याप्यचित्तत्वसम्भावनया ग्रहणप्रसङ्गः, कदाचित्पुनरचित्तीभूतस्यापि मिश्रत्वशङ्कासम्भवादग्रहणमिति त्रयोऽप्यनादेशाः ॥ सम्पति यः प्रवचनाविरोधी आदेशः प्रागुपदिष्टस्तं विभायिषुराह
जाव न बहुप्पसन्नं ता मीसं एस इत्थ आएसो। होइ पमाणमचित्तं बहुप्पसन्नं तु नायव्वं ॥२१॥
व्याख्या-यावत्तण्डुलोदकं 'न बहुप्रसन्न' नातिस्वच्छीभूतं तावन्मिश्रमवगन्तव्यम्, एषः 'अत्र' मिश्रविचारप्रक्रमे भवत्यादेशः प्रमाणं, न शेषः, यत्तु 'बहुप्रसन्नम्' अतिस्वच्छीभूतं तदचित्तं ज्ञातव्यं, ततोऽचित्तत्वेन तस्य ग्रहणे न कश्चिद्दोषः ॥ उक्तो मिश्रोऽप्कायः, अधुना तमेवाचित्तमाह
सीउण्हखारखत्ते अग्गीलोणूसअंबिलेनेहे । वुक्कंतजोणिएणं पओयणं तेणिमं होइ ॥ २२ ॥ व्याख्या इयं गाथा प्रागिव व्याख्येया, नवरं पृथिवीकायस्थानेऽकायाभिलापः कर्तव्यः । इह या स्वकायपरकायशस्त्रयोजना | द्रव्यक्षेत्रकालभावापेक्षया वाऽचित्तत्वभावना सापि मागिव यथायोगमकायेऽपि भावनीया । तथा यदा दधितैलादिसत्केषु घटेषु क्षिप्तस्य | शुद्धजलादेरुपरि दध्याद्यवयवसका तरी जायते तदा सा यदि परिस्थूरा तर्खेकया पौरुष्या तत्परिणमति, मध्यमभावा चेत्तहिद्वाभ्यां पौरुषीभ्यां, स्तोका चेत्तर्हि तिसृभिः पौरुषीभिरिति ॥ इह तेन व्युक्रान्तयोनिकेनाप्कायेनेदंप्रयोजनमित्युक्तम् , अतस्तदेव दर्शयति
याख्येया, नवरं पृथिवीकाऽपि भावनीया। तथा मध्यमभावा चेत्तहिद्वाभ्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org