________________
पिण्डनियु- मिश्रमिति २, अन्ये पुनरेवमाहुः-तण्डुलप्रक्षालनानन्तरं तण्डुला राद्धमारब्धास्ततस्ते यावन्न राध्यन्ति, यावन्नाद्यापि सिध्यन्तीति भावः, 2 अप्कायपितेर्मलयगि|| तावत्तत्तण्डुलोदकं मिश्रमिति ३ ॥ एषां त्रयाणामप्यादेशानां दूषणान्याह
पिण्डनिक्षेपे रीयावृत्तिः
| एए उ अणाएसा तिन्निवि कालनियमस्सऽसंभवओ। लुक्खेयरभंडगपवणसंभवासंभवाईहिं ॥ २०॥
___व्याख्या-एते त्रयोऽप्यादेशा अनादेशा एव, तुशब्द एवकारार्थो भिन्नक्रमश्च, कुतोऽनादेशाः ? इत्याह-कालनियमस्यासम्भवात, न खलु विन्द्वपगमे बुद्बुदापगमे तण्डुलपाकनिष्पत्तौ वा सदा सर्वत्र प्रतिनियत एव काल:, येन प्रतिनियतकालसम्भविनो मित्रत्वादूर्द्धम चित्तत्त्वस्याभिधीयमानस्य न व्यभिचारसम्भवः, कथं प्रतिनियतः कालो न घटते? इति कालनियमासम्भवमाह-'लुक्खेयरे' त्यादि, रूक्षेतरभाण्डपवनसंभवासम्भवादिभिः, अत्रादिशब्दाच्चिरकालसलिलभिन्नत्वाभिन्नत्वादिपरिग्रहः, इयमत्र भावना-इह यदापाकतः प्रथममानीतं चिरानीतं वा स्नेहजलादिना न भिन्नं भाण्डं तदृक्षमुच्यते, स्नेहादिना तु भिन्नं स्निग्धं, तत्र रूक्षे भाण्डे तण्डुलोदके प्रक्षिप्यमाणे ये बिन्दवः पार्वेषु लनास्ते भाण्डस्य रूक्षतया झटित्येव शोषमुपयान्ति, स्निग्धे तु भाण्डे भाण्डस्य स्निग्धतया चिरकालं, ततः प्रथमादेशवादिनां मते | रूक्षे भाण्डे बिन्दूनामपगमे परमार्थतो मिश्रस्याप्यचित्तत्वसम्भावनया ग्रहणप्रसङ्गः, स्निग्धे तु भाण्डे परमार्थतोऽचित्तस्यापि बिन्दूनामनपगमे मिश्रत्वेन सम्भावनया न ग्रहणमिति । तथा बुद्बुदा अपि प्रचुरखरपवनसम्पर्कतो झटिति विनाशमुपगच्छन्ति, प्रचुरखरपवनसम्पर्काभावे चिरमप्यवतिष्ठन्ते, ततो द्वितीयादेशवादिनामपि मते यदा खरप्रचुरपवनसम्पर्कतो झटिति विनाशमैयरुर्बुद्धदास्तदा परमार्थतो मि-18 श्रस्यापि तण्डुलोदकस्याचित्तत्त्वेन सम्भावनया ग्रहणप्रसङ्गः, यदा तु खरप्रचुरपवनसम्पर्काभावे चिरकालमप्यवतिष्ठन्ते बुद्बुदाः तदा परमार्थतोऽचित्तस्यापि तण्डुलोदकस्य बुद्बुददर्शनतो मिश्रत्वशडूनयां न ग्रहणमिति । येऽपि तृतीयादेशवादिनस्तेऽपि न परमार्थ पर्यालोचितवन्तः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org