SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ उसिणोद्गमणुवत्ते दंडे वासे य पडियमित्तंमि । मोत्तूणादेसतिगं चाउलउद्गेऽबहुपसन्नं ॥ १८ ॥ व्याख्या—अनुद्वृत्ते दण्डे, अत्र जातावेकवचनं, ततोऽयमर्थः - अनुद्वत्तेषु त्रिषु दण्डेषु - उत्कालेषु यदुष्णोदकं तन्मिश्रमिति प्रस्तावाद्रम्यते, तथाहि प्रथमे दण्डे जायमाने कश्चित्परिणमति कश्चिन्नेति मिश्रः, द्वितीये प्रभूतः परिणमति स्तोकोऽवतिष्ठते, तृतीये तु सर्वोऽप्यचित्तो भवति, ततोऽनुवृत्तेषु त्रिषु दण्डेषूष्णोदकं (मिश्र) सम्भवति, तथा वर्षे - दृष्टौ पतितमात्रे यज्जलं ग्रामनगरादिषु प्रभूततिर्यग्मनुष्यप्रचारसम्भविषु भूमौ वर्त्तते तद्यावन्नाद्याप्यचित्तीभवति तावन्मिश्रमवगन्तव्यं, ग्रामनगरादिभ्योऽपि बहिस्ताद्यदि स्तोकं मेघजलं निपतति तदानीं तदपि पतितमात्रं मिश्रमवसेयं पृथिवीकायसम्पर्कतस्तस्य परिणममानत्वात्, यदाऽप्यतिप्रभूतं जलं मेघो वर्षति तदाऽपि प्रथमतो निपतत् पृथिवी - कायसम्पर्कतः परिणममानं मित्रं, शेषं तु पश्चान्निपतत् सचितमिति, तथा 'मुक्त्वा ' परिहृत्य ' आदेशत्रिकं' मतत्रिकं, तदुक्ता मिश्रता न ग्राह्येति भावार्थ:, ' चाउलोदकं ' तण्डुलोदकम् ' अबहुप्रसन्नं ' नातिस्वच्छीभूतं, मिश्रमिति गाथार्थ: । अबहुमसन्नमित्यत्रादावकारलोप आर्षत्वात् ।। आदेशत्रिकमेव दर्शयति भंडगपासवलग्गा उत्तेडा बुब्बुया न संमंति । जा ताव मीसगं तंदुला य रज्झति जावऽन्ने ॥ १९ ॥ व्याख्या - तण्डुलोदके तण्डुलप्रक्षालनभाण्डादन्यस्मिन् भाण्डे प्रक्षिप्यमाणे ये त्रुटित्वा भाण्डकस्य पार्श्वेषु 'उत्तेडा ' बिन्दवो लग्नाः ते यावन्न ' शाम्यन्ति ' विध्वंसमुपगच्छन्ति तावत्तत्तण्डलोदकं मिश्रमित्येके १, अपरे पुनराहुः - तण्डुलोदके तण्डुलप्रक्षालन भाण्डकादपरस्मिन् भाण्डके प्रक्षिप्यमाणे ये तण्डुलोदकस्योपरि समुद्भूता बुद्बुदास्ते यावदद्यापि 'न शाम्यन्ति' न विनाशमिति तावत्तत्तण्डुलोदकं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy