SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 00 पृथ्वीपिण्डनिक्षेपे क पिण्डनियु- व्याख्या-इह साधुभिः सचित्तमिश्रपरिहारद्वारेणाचित्ते भूतलप्रदेशे यत् स्थान-कायोत्सग्गों विधीयते, यच्च निषीदनम्-उपवेशनं तेर्मलयागि यच्च त्वग्वर्त्तनं-स्वापः, यश्च उच्चारादीनां पुरीषप्रस्रवणश्लेष्मनिष्ठयूतानामुत्सर्गः, तथा यो घुट्टको-लेपितपात्रमसृणताकारकः पाषाणो ये च रीयात्तिः डगलकाः-पुरीपोत्सर्गानन्तरमपानमोञ्छनकपाषाणादिखण्डरूपा यश्च लेपो-भोगपुरपाषाणादिनिष्पन्नस्तौम्बकपात्राभ्यन्तरे दीयते, एवमादि बहुधा ' बहुप्रकारम् अचित्तेन पृथिवीकायेन प्रयोजनम् ॥ उक्तः सचित्तादिभेदभिन्नः पृथिवीकायपिण्डः, सम्पत्यप्कायपिण्डं सचित्तादिभेदभिन्नमाह आउक्काओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निच्छयववहारओ चेव ॥१६॥ व्याख्या-अप्कायस्त्रिविधः, तद्यथा-सचित्तो मिश्रोऽचित्तश्च, तत्र सचित्तो द्विधा-निश्चयतो व्यवहारतश्च ॥ एतदेव सचित्तस्य नि|श्चयव्यवहाराभ्यां वैविध्यमुपदर्शयति- . घणउदही घणवलया करगसमुद्दद्दहाण बहुमज्झे । अह निच्छयसच्चित्तो ववहारनयस्स अगडाई ॥ १७ ॥ व्याख्या-'घनोदधयः' नरकपृथ्वीनामाधारभूताः कठिनतोयाः समुद्राः, 'घनवलयाः' तासामेव नरकपृथिवीनां पार्थवर्त्तिवृत्ताकारतोयाः ये च 'करकाः' घनोपलाः तथा 'समुद्रहदानां' लवणादिसमुद्रपद्मादिहदानां च बहुमध्यभागे येऽप्कायाः 'अह' ति एष सर्वो|ऽप्यप्कायो 'निश्चयसचित्तः' एकान्तसचित्तः, शेषस्तु 'अवटादिः' अवटवापीतडागादिस्थः, इहावटादिस्थोऽवटादिशब्देनोक्तः, तावस्थ्येन तद्वयपदेशप्रवृत्तेः, यथा मश्चाः क्रोशन्तीत्यादौ, तत्रावटः कूपस्तदादिगतोऽप्कायो 'व्यवहारनयस्य' व्यवहारनयमतेन सचित्तः ॥ उक्तः सचित्तोऽप्कायः, सम्पति मिश्रमाह ।॥ ९ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy