SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ वनस्पतिकायिकानां, तथा च हरीतक्यादयो योजनशतादूर्द्धमानीताऽचित्तीभूतत्वादौषधार्थ साधुभिः प्रतिगृह्यन्ते इति । कालतस्त्वचिचता स्वभावतः स्वायुःक्षयेण, साच परमार्थतोऽतिशयज्ञानेनैव सम्यक्परिज्ञायते न छानस्थिकज्ञानेनेति न व्यवहारपथमवतरति, अत एव च तृषाऽतिपीडितानामपि साधूनां स्वभावतः स्वायुःक्षयेणाचित्तीभूतमपि तडागोदकं पानाय वर्द्धमानस्वामी भगवान् नानुज्ञातवान् , इत्थंभूतस्या-18 चित्तीभवनस्य छद्मस्थानां दुर्लक्षत्वेन मा भूत सर्वत्रापि तडागोदके सचित्तेऽपि पाश्चात्यसाधूनां प्रवृत्तिप्रसङ्ग इतिकृत्वा, भावतोऽचित्तीभवनं । पूर्ववर्णादिपरित्यागतोऽपरवर्णादितया भवनं । तदेवमुक्तोऽचित्तोऽपि पृथिवीकायः। एतेन चाचित्तेन साधूनां प्रयोजनं, तथा चाह-'बुक्कत इत्यादि, व्युत्क्रान्ताः-अपगता योनिः-उत्पत्तिस्थानं यत्र तेन विध्वस्तयोनिना-पासुकेन 'इदं वक्ष्यमाणस्वरूपं प्रयोजनं साधूनां भवति॥ तदेवोपदर्शयति-- अवरद्धिगविसबंधे लवणेन व सुरभिउवलएणं वा । अच्चित्तस्स उ गहणं पओयणं तेणिमं वऽन्नं ॥ १४॥ . __व्याख्या-अपराधनम् अपराद्धं-पीडाजनकता तदस्यास्तीति अपराधिको-लूतास्फोटः सर्यादिदंशो वा विष-प्रतीतं तच्च दद्रुप्रभृतिषु चारितं सम्भवति तयोरुपशमनाय बन्ध इव बन्धः-प्रलेपस्तस्मिन् कर्त्तव्येऽचित्तपृथिवीकायस्य गौरमृत्तिकाकेदारतरिकादिरूपस्य ग्रहणं प्रयोजनं, यद्वा लवणेन प्रतीतेन 'अचित्तस्स' त्ति विभक्तिपरिणामेनेह तृतीयान्तं सम्बध्यते, अचित्तेनालवणभक्तभोजनादौ प्रयोजनम् , अथवा सुरभ्युपलेन-गन्धपाषाणेन गन्धरोहकाख्येन प्रयोजनं, तेन हि पामाप्रसूतवातघातादिः क्रियते, वाशब्दो विकल्पार्थः, अथवा तेन पृथिवीकायेनेदमन्यत्प्रयोजनम् ।। तदेवाह ठाणनिसियणतयट्टण उच्चाराईण चेव उस्सग्गो । घुट्टगडगलगलेवो एमाइ पओयणं बहहा ॥ १५ ॥ Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy